SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ कानिचिन्नभसा गन्तुं, प्रवृत्तानि दवाऽग्निना । अभ्रंलिहशिखाऽऽश्लेषात्पातितानि भुवस्तले ॥१३९॥ कानिचिद्विविशुः पङ्के, कोटरेष्वथ कानिचित् । तीरात्तीरं परिभ्रेमुः, कानिचिज्जीविताऽऽशया ॥१४०॥ बभूव नश्यतां व्योम्नि, तापानिपततां भुवि । वह्निना दह्यमानानां, ताराऽऽक्रन्दितमुच्चकैः ॥१४१॥ तच्छ्रुत्वाऽथ मया प्रोचे, हंस ! प्राणेश ! रक्ष माम् । सपुत्रां गन्तुमन्यत्र, क्लीबां प्रसवकष्टतः ॥१४२॥ [पञ्चभिः कुलकम्] हंसोऽपि परितो वीक्ष्य, त्रटचटदिति स्वनैः । प्रज्वल्य पततो मूलाल्लतावृक्षान् दवाऽग्निना ॥१४३।। सानूनि च गिरेश्चूर्णीभूतानि मरुता क्षणात् । कोष्णान्येव विधूतानि, कुकूलानीव सर्वतः ॥१४४॥ दवदाहभयाद्गन्तुं, धावतः परितो मृगान् । पततश्च पुनर्दावे, वह्नौ निद्भुतभूतले ॥१४५।। हस्त्यादिश्वापदैः पिण्डीभूतैरुपर्युपर्यथ । विलूननलिनीनालं, प्रच्छादितं निजं सरः ॥१४६॥ जातमृत्युभयः कम्पमानाऽऽत्मा शुष्यदाननः । गताऽपत्यप्रियास्नेहोऽस्थादुदासीन एव सः ॥१४७।। वैरीव हि दहन्नाऽऽगादावस्तत्र सरोऽन्तिके । प्रिय ! त्रायस्व त्रायस्व, ममाऽपत्यानि वह्नितः ॥१४८|| इति मयि वदन्त्यां द्राक्, प्रेरितेवाऽग्निमण्डली । नीडं प्रति लुलोठाऽऽराद्दहन्ती परितोऽखिलम् ॥१४९।। ततस्तानि ममाऽपत्यान्युच्चैश्चक्रन्दुराकुलम् । वह्निना दह्यमानं च, वीक्ष्याऽहं नीडमात्मनः ॥१५०॥ जयराजकथा। २१९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy