________________
भृङ्गीरुतललद्गीतिं, केतक्यो विदधुर्मुदा । ननृतुर्जलयन्त्रोद्यद्ध्वनिमाद्यच्छिखण्डिनः ॥ ४५॥ ततश्च स्वस्वनै राज्ञो निद्रां पिक्यो विचिच्छिदुः । मरुत्केलिपतत्पक्वफलान्याढौकयन् द्रुमाः ॥४६॥ आसन्नवेणीमूर्द्धस्थं, वाप्योऽम्भः समचारयन् । स्वागतं पुण्यपूर्णानां कुर्वन्त्यचेतना अपि ॥४७॥ फलान्यास्वाद्य पीत्वाऽम्भः, ससखो वनमीक्षितुम् । भ्राम्यन् ददर्श नाभेयचैत्यमेकं नृपोऽद्भुतम् ॥४८॥ अहो ! भवाऽब्धौ द्वीपोऽयं, दुरापोऽवापि तन्मया । यद्दृष्टं भ्रमताऽद्येदं, दिष्ट्याऽऽदिजिनमन्दिरम् ॥४९॥ इत्यूचानो मुदाऽश्रूणि मुञ्चन्नन्तरथाऽविशत् । दूरान्नत्वा समासेन, स्तुत्वा प्रभुमवन्दत ॥५०॥ स्वाभाविकललद्रूपं, शृङ्गारितमथाऽर्चया । यौवनाऽवतारमिव, प्रभुं वीक्ष्य नृपोऽवदत् ॥५१॥ जित्वाऽन्तरायकर्म, प्राप्तशिव श्रीकरग्रहणललित ! । पूरय मनोरथान्मे, स्वामिन् ! यत् सर्वदस्त्वमसि ॥५२॥ इति स्तुत्वा पुरश्चैत्यवृक्षस्याऽधः समेत्य सः । छायासु क्वाऽपि सुष्वाप, समित्रोऽपि महीपतिः ॥५३॥ ततो विद्याधराः केऽपि, दिवाऽप्यास्येन्दुसुन्दराः । मिथः स्निग्धोक्तिपीयूषजलकेलिप्लुताऽऽत्मकाः ॥५४॥
विमानमध्यादुत्तीर्य, बहिर्देवगृहात् स्थिताः । व्यलोकन्त नृपं सुप्तं, रूपेण जितमन्मथम् ॥५५॥ [युग्मम्]
ततो दध्युर्मनस्येवं, पश्येयुर्यदि नः स्त्रियः । ततोऽस्मासु विरज्यैता, रमेरन्नमुमेव हि ॥५६॥
जयराजकथा ।
२११