SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ तत्कुर्मोऽमुं स्त्रियं मन्त्रगर्भोद्यत्सूत्रबन्धतः । न स्त्रियः स्त्रियमिच्छन्ति, रन्तुं रूपवतीमपि ॥५७॥ इत्यालोच्य मिथो विद्याधरा बबन्धुरादरात् । पादेऽस्य भूभुजः सूत्रं, नारीरूपं गतश्च सः ॥५८।। विद्याधरास्ततो देवमानचुर्ने मुरादिमम् । सङ्गीतमपि कृत्वा च, यथाऽऽजग्मुस्तथा ययुः ॥५९।। राज्ञा च जयराजेन, बध्नन्तः सूत्रमादरात् । बहुलीभूतनिद्रेण, ज्ञाता विद्याधरा न हि ॥६०॥ ततो विद्याधरीवृन्दममन्दं रूपसम्पदा । स्पर्धाऽनुबन्धिनेपथ्यशृङ्गारितवपुलतम् ॥६१॥ रते रूपसहस्रं वा, बह्वीभूता रमाऽथवा । किं वा शचीसमूहोऽयमिति तर्कमिदं दधत् ॥६२॥ आगाच्चैत्यपुरोवृक्षमुत्ततार विमानतः । अपश्यच्च नृपं नारीरूपधरं ततो मिथः ॥६३॥ [त्रिभिर्विशेषकम्] विलोक्योचुरहो ! रूपमस्या लावण्यमप्यहो ! । त्रैलोक्यवनितासर्गरामणीयकवर्णिकाम् ॥६४।। मा स्म पश्यदिमां कोऽपि, विद्याधरयुवा त्विह । इत्येनां पुरुषीकुर्मोऽन्यथाऽस्मान्यक्करिष्यति ॥६५॥ ततो विद्याधरस्त्रीभिर्बद्धेऽङ्घौ सूत्रकण्डके । भूयोऽपि नृपतिर्जज्ञे, स्वाभाविकस्वरूपभृत् ॥६६॥ अथ चैत्ये प्रविश्यैताः, समभ्यया॑ऽम्बुजैजिनम् । स्तुत्वा भावेन वन्दित्वा, ययुः स्थानं निजं निजम् ॥६७।। निद्रोच्छेदे समुत्तस्थौ, नृपस्ततश्च पादयोः । सूत्रकण्डकमालोक्य, किमेतदित्यचिन्तयत् ॥६८।। २१२ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy