________________
पान्थः प्राह महाराज !, पुरेऽवात्सं पुराऽत्र हि । दारिद्र्योपद्रुतः किन्तु, देशाद्देशं व्रजाम्यहम् ॥३३।। प्रासादाऽट्टगृहश्रेणिवापीकूपसरोवरैः । यथा निवेशनैतिं, पुरमेतद्रमालयम् ॥३४|| दक्षिणस्यां दिशि ख्यातं, रमालयपुरं ह्यदः । इतः पुरादिदं भावि, योजनानां शताऽष्टके ॥३५॥ सभायामुपविष्टोऽयं, चन्द्रचूडो नृपोत्तमः । इदमन्तःपुरं ह्यस्य, तस्यैते सचिवाऽऽदयः ॥३६।। नानाक्रीडाभिरानन्दात्, क्रीडन्तीयं नृपाऽङ्गजा । अनङ्गसुन्दरी नामाऽन्तरे यौवनबाल्ययोः ॥३७॥ पुरुषद्वेषिणी त्वेषा, पितृभ्यामर्थिताऽपि हि । नेहते यौवनाऽऽरम्भोत्फुल्लश्रीकान् नृपानपि ॥३८॥ इति सर्वं मया यादृग्, दृष्टं स्वपुरचेष्टितम् । तत्तादृशमिदं सर्वं, चित्रेऽस्ति नृपसत्तम ! ॥३९॥ स्वप्नदृष्टाऽङ्गनाऽस्तित्वहर्षादुत्फुल्ललोचनः । सा पुंद्वेषेति श्रुत्वा तु, राजाऽभूच्चिन्तयाऽऽवृतः ॥४०॥ ततः पान्थाय पाथेयं, काञ्चनं भूर्यदापयत् । मनसिकृत्य वृत्तान्तं, ततो राजाऽगमद्गृहम् ॥४१॥ ततश्च सकलं राज्यं, समर्प्य मुख्यमन्त्रिणे । सार्धमेकेन मित्रेणाऽचालीद्रमालयं प्रति ॥४२॥ वसन्तसमयेऽन्येधुरासाद्योद्यानमध्वनि । आतपाऽऽक्लान्तसर्वाऽङ्गो, वृक्षमेकमशिश्रियत् ॥४३।। विद्यमानेव प्राग् तत्र,निद्रा श्रममपानयत् । स्वपत्रव्यजनैश्चक्रुः, कदल्यः सुखमारुतम् ॥४४॥
२१०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।