SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ तस्या अदर्शनाद्राजा, नाऽघसन्नाऽपिबच्छुचा । बुद्ध्या यथातथं वीक्ष्य, नृपं प्रोचुश्च मन्त्रिणः ॥२१॥ स्वप्नदृष्टस्त्रियं क्वाऽपि, तिष्ठन्तीं वेत्ति कः प्रभो !? । तद्वृत्तान्तपरिज्ञानोपायस्तु क्रियते ह्ययम् ॥२२॥ नगराबहिरुद्यानेष्वनिवारितभोजनात् । नानाभोज्यानि सत्राणि, कार्यन्ते सर्वतस्ततः ॥२३॥ यत्पुराऽवस्थिता सा स्त्री, दृष्टा स्वप्ने तदत्र हि । सत्रे तन्नगरं सा स्त्री, लेख्यते चित्रकः स्फुटम् ॥२४॥ नानादेशाऽऽगताः पान्था, वीक्ष्येदं चित्रमत्र ते । चेत्पुनः सपुरामेनां, केऽपि जानन्ति दैवतः ॥२५॥ राजाऽप्येतन्निशम्याऽथ, युक्तमित्यभिमन्य च । परितो नगरं सत्राण्यतिरम्याण्यचीकरत् ॥२६।। ततश्च सर्वतः पान्थाः, श्रुत्वा तत्सत्रमाययुः । कृतस्नानाश्च भुक्त्वा ते, तच्चित्रं वीक्ष्य यान्ति च ॥२७॥ अन्यदा पथिकः कोऽपि, विशन् सत्रं ददर्श तत् । चित्रं स तदभिज्ञाय, मुञ्चन्न श्रूणि तस्थिवान् ॥२८॥ सत्राऽमात्यस्तथा दृष्ट्वा, तं पप्रच्छं कथं नु भोः !। पान्थ ! रोदिषि ? स प्रोचे, चित्रं मे नगरे ह्यदः ॥२९॥ देशाद्देशं परिभ्राम्यंश्चिराच्चित्रगतं पुरम् । तदवस्थं विलोक्याऽहं, मुदितो ममतावशात् ॥३०॥ सत्राऽध्यक्षस्ततो राज्ञे, तं गत्वाऽऽशु न्यवेदयत् । राजाऽपि हि चिरादुत्को, वेगात्सत्रमुपागमत् ॥३१॥ स्वयं पप्रच्छ तं पान्थं, किमिदं दृष्टवानसि? । क्वाऽऽस्तेऽध्वनि कियत्यास्ते, चित्राऽनुसारि तत् पुरम् ? ॥३२॥ जयराजकथा । २०९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy