________________
शब्दाऽनुसारतो गत्वा, खड्गमित्रोऽब्रवीच्च ताम् । किं रोदिषि ? शुभे ! ब्रूहि, निश्येका किं बिभेषि न ? ॥९॥ मुहुश्च पृच्छति नृपे, रुदती नोत्तरं ददौ । किन्तु सा रोदिति भृशं, रोदयन्ती तरूनपि ॥१०॥ ततः सखीद्वयं तस्याः, समागादथ तन्मिथः । प्रोचे भगिनि ! पश्यैते, कृतघ्नाः कीदृशा नराः ? ॥११॥ न सुकृतान्न च स्नेहात्प्रणयान तु दैन्यतः । भवन्ति हि किलाऽऽत्मीयाः, पुमांसः कृतनाशिनः ॥१२॥ यद्भाव्यं तद्भवितैव, किन्त्वावाभ्यामिमां निशाम् । सखि ! निर्गमयितव्या, यथाऽनिष्टं करोति न ॥१३॥ प्रातश्चाऽस्याः पिता मात्रा, दैन्यादभ्यर्थितः स्वयम् । समेत्य प्रतिपाद्यैनां, गुर्विणीमपि नेष्यति ॥१४॥ इत्युक्त्वा ते उभे सख्यौ, तां कुत्राऽप्युपवेश्य च । तस्या मनोविनोदाय, प्रारेभाते मिथः कथाम् ॥१५॥ राजाऽपि तां कथां श्रोतुमुन्मनीभूय कौतुकात् । आरात्तासामुपविश्य, स्थितः शृण्वन्ननुक्तिमान् ॥१६॥ कुब्जिका प्राह सोशपुरे राजाऽस्ति नामतः । जयराजोऽन्यदा स्वप्नेऽपश्यत्क्वाऽपि पुरे स्त्रियम् ॥१७॥ प्रत्यक्षामिव तां वीक्ष्य, समुत्तस्थौ जयो नृपः । स्वप्नदृष्टस्त्रियाऽऽश्लिष्टमाशिश्लेष रतिर्न तम् ॥१८॥ ततः कष्टादुद्गतेऽर्के, राजाऽऽह्वन्मन्त्रिमण्डलीम् । आख्याय स्वप्नमादिक्षद्वीक्षध्वं तदिमां क्वचित् ॥१९।। ततश्च वेश्मवेश्माऽनुप्रवेशं सकले पुरे । वीक्ष्यमाणाऽपि नाऽदर्शि, चर्मचक्षुभिरात्मवत् ॥२०॥
--+-A
२०८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।