________________
जयराजकथा
अस्ति पूः शैलिका नाम, यत्राऽस्ति धनदो जनः । सर्वोऽपि तेन जिग्ये सा, तयैकधनदाऽलका ॥१॥ तत्राऽभूद्भूपतिर्नाम्ना, लक्ष्मीबुद्धिः प्रतापवान् । यस्याऽऽज्ञादूतिका नित्यमुपनिन्ये रिपुश्रियः ॥२॥ जिनशासनकल्पद्रोः, स करोति प्रभावनाम् । तद्भावादर्जयत्येष, मोक्षप्रतिभवं शुभम् ॥३॥ सोऽन्यदा दिव्यपल्यङ्के, निद्रावशीकृताऽऽत्मकः । दूरतो रुदतीं तारं, नारी काञ्चिदथाऽशृणोत् ॥४॥ तत्ताररुदितश्रुत्या, समुत्तस्थौ महीपतिः । सम्यग् विज्ञातुमागाच्च, पुरतो मणिकुट्टिमे ॥५॥ विज्ञाय महतीं रात्रिं, स नक्षत्राऽनुसारतः । कैषा रोदिति दूरस्था ?, कथं वाऽपीत्यचिन्तयत् ॥६॥ तत्पृच्छामि स्वयं गत्वा, करुणाऽऽक्रन्दकारणम् । नेदृग्दीनविलापाः स्युर्महादुःखं विना क्वचित् ॥७॥ इत्यन्धकारपटकं, प्रावृत्य नृपतिस्ततः । चचाल सौधाद्यामिकदृशं दूरेण वञ्चयन् ॥८॥
जयराजकथा।
२०७