________________
क्लेशः स्याद्यत एव तत्र न गृहाबन्धे विरक्तिः परा, यस्मान्मृत्युरुपैति कुप्यति जडस्तस्मै न दुष्कर्मणे ॥८॥ कापुरुषो विषयसुखाऽभिमतिमुखात्स्वीकरोति दुःखानि । करभाऽधिरोहणोऽपि क्लमताम्यद्गात्रभङ्गाऽऽर्तिः ॥९॥ क्व न विषयो विषयाणां वचसामिव सत्कवेः परं पश्य । जितमनसि तेऽपि कुण्ठा दवदहना विगतसमिधीव ॥१०॥ क्रूरग्रहो हि विषयो नक्षत्रं किं न पीडयत्येष ? । न भविष्यति गुरुदर्शनमिह यदि बाढं न शस्तः स्यात् ॥११॥ संसाराऽऽरम्भरतोऽप्यनधिगतज्ञानचरणभावोऽपि । सम्यक्त्ववशीभूतो वशयति सिद्ध्यङ्गनां जीवः ॥१२॥ श्रुत्वेति गुरुवाक्यानि, भक्त्याऽजातनयस्ततः । जग्राह च गृहस्थानां, द्वादशाऽपि व्रतान्यसौ ॥१३॥ पुनः प्रणम्य स गुरून्, पप्रच्छ ज्ञानभास्करान् । कीदृशो मे भवः पूर्वश्चक्रे तत्र मया च किम् ? ॥१४॥ पुरस्तादिव पश्यन्तो ज्ञानेन गुरुवस्ततः । पूर्वजन्मकथां तस्य, यथावृत्तामचीकथन् ॥१५॥
२०६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।