________________
श्रुत्वेति सात्त्विकाऽऽख्यानान्याऽऽनन्दमन्थराशयः । अजापुत्रो नरकाणां, स्थितिं पप्रच्छ तान् पुनः ॥१॥ आख्यन्नविदुरा बौद्धतापसाः स्वस्वकल्पितम् । यथा दृष्टाऽसंवादित्वादजासूर्नाऽभ्यमन्यत ॥२॥ सोऽथ पप्रच्छविनयाज्जैनाचार्यान् कृताऽञ्जलिः । राज्ञा दृष्टा यथा तेऽमी, कथितास्ते तथैव हि ॥३॥ तत: प्रत्ययितो राजा, त्रैलोक्यस्थितिवेदिषु । जैनाचार्येषु श्रद्धालुर्गुरुबुद्धिं बबन्ध सः ||४|| पप्रच्छ च ततो धर्मं, गुरुभ्यः श्रद्धया नृपः । मूलं धर्मस्य तेऽप्याख्यन्सम्यक्त्वं मोक्षसौख्यदम् ॥५॥ मृत्युसहाया विषया, नरकोपायास्तथा कषायाश्च । भवदासो गृहवासः स्नेहः सुखगेहदायादः || ६ || आयुःसद्मनि बाल्ययौवनपरीणामत्रिभूमौ क्रमादज्ञानान्मदनाद्रजश्च कुनयोन्मादव्यथावक्रयान् । गृह्णन् लोभवशान्न तं क्षणमहो ! मूढः करोति क्वचिद्यस्मिन् लब्धपदस्थितिः कियदपि स्वीयो वृषः पोष्यते ॥७॥ उन्मीलन्ति यतः श्रियो न हि रुचिस्तस्मिन् सुधर्मे क्वचित्प्रादुःष्यन्ति यतः सुखानि नियमात्तस्मिन्नदाने स्पृहा ।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
,
२०५