SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (सपश्चात्तापं च) गुणाऽनुरागिणः केऽपि, गुणिनं ख्यापयन्त्यलम् । अधमाः केऽपि निन्दन्ति, तद्गुणानसहिष्णवः । महासत्त्वचूडामणे ! स भगवान् गुणाऽनुरागी दिवस्पतिः स्वमुखेन मध्येदेवसभं भवतः सत्त्वस्तुतिमकरोत् । अहं तु त्वत्सत्त्वस्याऽनभिज्ञत्वाद-सहिष्णुरेवमकार्षम् । तदेतदज्ञानस्य मे क्षमस्व । राजा- पुरन्दरोऽप्यस्मच्छ्लाघां करोतीति महान् विस्मयः । देवः- भूमिवासव ! मैवमाशतिष्ठाः । यतोऽस्माभिरपरस्त्वमिन्द्रो मन्यसे । राजा- (सविलक्षस्मितम्) वज्रायुधेतिनामसाम्यान्मामपीन्द्रेण तुलयन्तु भवन्तः । देवःवज्रायुधस्त्वमेवाऽसि, न पुनः स्वर्गिणां पतिः । सपक्षान् भूभृतोऽभैत्सीः , पक्षानेव स भूभृताम् ।। (राजा- सवैलक्ष्यं स्मयते) देव:- नृपतितिलक ! भवत्सत्त्वाऽनुरञ्जितोऽहं,कथय किं ते प्रियमादधामि ? । राजा- त्रिदशपुङ्गव ! अशक्यं कर्तुमन्येन, स्वं सत्त्वं ख्यापितं भुवि । कृतश्च सत्यवागिन्द्रः, प्रियं मे किमतः परम् ? ॥ देवः- तथाऽपीदमस्तु, श्यामां सोमघटीपटीयसितमः श्रीमस्तकानियतीं, प्राच्यात् पश्चिममद्रिवंशशिखरं स्वर्दण्डरज्ज्वाश्रयात् । भास्वत्कुम्भशिरा निराश्रयदिनश्रीवंशपुत्रीयुधे, यावन्नाभिमुखीं करोति नृपते ! तावद्भवानन्दतात् ।।२२०॥ ॥ इति श्रीवजायुधकथा ॥ २०४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy