________________
(परा०- वेपमानवपुः क्षितिपतिमुखमीक्षते ।) राजा- (स्वगतम्) आः ! का गतिः ? । त्रातव्यः कान्दिशीकोऽयं, शकुनिः प्राणरक्षणात् । त्रातव्यश्च क्षुधाऽऽत्तॊऽयं, शकुनिः प्राणरक्षणात् ।। पुरुषोत्तमः- (जनाऽन्तिकं राजानं प्रति) उपाध्यायाऽवाप्तेभृशमसकृदभ्यासवशतो, वचोभिर्देवानां शुकशकुनिरेव प्रवदति । अभीक्ष्णं यत्त्वेतौ धरणिधर ! धीरं प्रलपतस्ततो मन्ये कोऽपि त्रिदशपतिरेवं व्यवसितः ।।
राजा- अमात्य ! अयं देवो वा भवतु अन्यः कोऽपि वा भवतु । केवलमस्माभिस्तावत् स्वप्रतिज्ञानिर्वाह एव विधातव्यः ।
श्येनः- (सकोपमिव) ननु दूयेऽप्राप्तस्वभक्ष्यः कालक्षेपेण । राजा- (स्वगतम्) श्येनो विना न तुष्यति, मांसात् पारापतस्तु पातव्यः । दोषोऽन्यमांसदाने, ददे तदेतन्निजं मांसम् ॥
(प्रकाशम्) पक्षिन् ! अक्षमे दातरि वस्तुव्यत्ययेन लोकेऽपि व्यवहारः प्रवर्तते । ततो यदि भवतः प्रतिभासते तदहं पारापततुलितानि निजवपुराँसशकला-न्युत्कृत्योत्कृत्य तुभ्यं प्रयच्छामि ।
पारा०- (सरोमाञ्चं स्वगतम्) भगवान् पाकशासनः समीचीनवचन इव सम्पत्स्यते । श्येन:- (क्षामाऽक्षरम्) एवं भवतु । राजा- (सोत्साहम्) कोऽत्र भोः !? ।
(प्रविश्य) राजाऽध्यक्ष:- अयमस्मि, समादिशतु महाराजः । (राजा- राजाऽध्यक्षस्य कर्णे एवमेव ।)
श्रीवज्रायुधकथा ।
२०१