SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ राजाऽध्यक्षः— आदेशः प्रमाणम् (इति निष्क्रम्य तुलामानीय च राज्ञे समुपनयति ।) (राजा- तुलामुपरि संयमय्य एकस्मिंस्तुलाभाजने स्वहस्तेन पारापतमा - रोपयति, साहंकारं च शस्त्रिकया निजोरुमांसलस्थानान्युत्कृत्योत्कृत्या - ऽपरस्मिस्तुलाभाजने प्रक्षिपति ।) (नेपथ्ये तुमुलध्वनिः) श्येन:– (सास्रम्) नमो नमस्तुभ्यमहङ्कारवीराय । पुरु० - (सखेदम्) देव ! कोऽयमस्थाने साहसोत्कर्षः ? । शरीरेणाऽमुना नाथ !, त्रातव्यानि जगन्ति ते । एकस्य पक्षिणः कार्ये, तदेतद्युज्यते किमु ? ॥ किञ्च– मायावी कोऽपि देवोऽयमिति तुभ्यमचीकथम् । एतदद्याऽपि विज्ञाय मानिन् ! मुञ्चाऽतिसाहसम् ॥ २०२ (राजा— अमात्यवचनमवगणय्य हर्षोत्कर्षं नाटयन् पुनः मांसशकलान्युत्कृत्य प्रक्षिपति ।) लक्ष्मीः– (सबाष्पम्) अमच्च ! कोऽयमम्हाणमकण्डे वज्जनिवाओ ? । अमात्य:- स्वामिनि ! चिह्नमेतद्विजानीहि, दैवस्याऽलङ्कृतकुधः । वृद्धाज्ञां यदवज्ञाय, कार्यमाचर्यते जडैः ॥ लक्ष्मी:- ( साक्षेपं राजानं प्रति) हा ! अज्जउत्त ! तुमए, पारद्धं सत्तसालिणा किमिणम् ? । तुह अङ्गेसु वहन्ती, छुरिया दारेइ मह हिययम् ॥ सहस्राऽऽयुधः– (सैदन्यम्) यथा यथा क्रव्यमतीव सत्त्वाच्चिक्षेप भूपः स्वतनुं निकृत्य । तथा तथाऽङ्गेषु बभार भारं, पारापतो हा ! भविता किमत्र ? ॥ १. अमात्य ! कोऽयमस्माकमकाण्डे वज्रनिपात: ? । २. हा ! आर्यपुत्र ! त्वया प्रारब्धं सत्त्वशालिना किमिदम् ? | तवाऽङ्गेषु वहन्ती क्षुरिका दारयति मम हृदयम् ॥ 4~ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy