________________
विदूषक:- (स्वगतम्) ही ही भो ! जम्मकालमारंभिय अज्जेव मे पुव्वकयसुकयकम्मेहिं फलिदं, जं दाणि ममगोत्तेण वि अदिट्ठा दिव्वमोयगा दीसंति (सोच्छ्वासं च) न केवलं दीसंति केण वि उवाएण रायस्स पासाओ मग्गिय भक्खिस्सं च । (प्रकाशं राजानं प्रति) वयस्स ! अज्ज दाव अईव कुविदाए भट्टिणीए पिट्टिय घराओ निस्सारिदो म्हि |
राजा - (सस्मितम्) कदाचिद्भो ! मोदकान् याचितुमयमारम्भः । ततस्ततःविदू०– (सहासम्) तेओ मे खुहाकिलिण्णस्स मोअगा दावेसि ? । राजा - (सस्नेहम्) एवं करिष्यते ।
-
(चुन्द० - मोदकस्थालीं राज्ञे समर्पयति ।)
(विदू० - स्पृहोत्कलिकां नाटयन् राज्ञो हस्तान्मोदकस्थालीमाच्छिद्य तान् सत्वरमास्वादयति ।)
(अन्ये सर्वे हसन्ति ।)
(राजा - सकोपस्मितं भ्रूभङ्गया विदूषकमधिक्षिपन् पुनस्तदाऽऽनयनाय चुन्दलकमादिशति ।) (चुन्द० - तथा करोति )
(राजा स्वहस्ते मोदकमेकमादाय श्येनाय प्रयच्छिति ।)
श्येन:- (सकौतुकमिवाऽवलोक्य) वदान्यमूर्धन्य ! किमेतत् ? ।
राजा- मोदकोऽयम् ।
श्येन:- (अजानन्निव) राजन् ! मोदक इति कः शब्दार्थ: ? ।
राजा - मोदयति क्षुधातुरमित्यर्थः ।
श्येन:- ज्ञातम्, परं विनाऽस्मादृशान् पक्षिण इत्यनेन सोपाधिकमिदं वचः । अस्मादृशा हि क्रव्यादा न तदात्वोत्कृत्तपललाद्विना तृप्यन्ति । तदलमनेन एनमेवाऽर्पय मद्भक्ष्यम् ।
२००
१. ही ही भो ! जन्मकालादारभ्य अद्यैव मम पूर्वकृतसुकृतकर्मभिः फलितं, यदिदानीं मम गोत्रेणाऽप्यदृष्टा दिव्यमोदका दृश्यन्ते । न केवलं दृश्यन्ते, केनाऽप्युपायेन राज्ञः पार्श्वाद् मार्गयित्वा भक्षयिष्यामि च । वयस्य ! अद्य तावदतीव कुपितया भट्टिन्या कुट्टित्वा गृहान्निस्सारितोऽस्मि ।
२. ततो मम क्षुधाक्लान्तस्य मोदकान् दापयसि ? |
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।