________________
अपि च
भीतिर्यथा ते मरणात्परेषां, हे श्येनिकावत्स ! तथाऽवगच्छ । अप्यन्यभोज्याद्व्रजति क्षुधाऽर्त्तिर्न नारकाऽर्त्तिः सहनाद्विना ते ।।
तद्भो ! मा मुह, मामुह, किन्तु दूरत एव मुञ्च देहिग्रसनदुर्व्यसनम् । श्येन:- (सोपहासम्) राजन् ! यथाविहितमभिदधासि, अहमप्येवं वेद्मि— यदुत प्राणिवधात्प्राणी नरकेषूत्पद्यते । परन्तु -
यो जन्तुजीवातुकुले भवेत्तं, प्रत्येष दोषः खलु दोष एव । अस्मादृशां प्राणिवधप्रधानमानस्पृशां प्रत्युत मण्डनं सः ॥
ततश्चाऽऽत्मकुलपारवश्येनाऽन्यकुलाऽपेक्षया निन्द्यमप्याचरतो न दोष इत्येतस्याऽर्पणेन
मां प्रीणयितुमर्हसि (इति ब्रुवन् सरभसं किञ्चिदग्रतः सरति )
(पारा० सभयमिव राज्ञः क्षौमाऽम्बरमध्ये प्रविश्याऽऽत्मानं गोपयति ।)
राजा— (हस्तेनैनं संस्पृश्य) अरेरे !!! कान्दिशीक ! मा त्वमङ्गीकृता-ऽस्मच्चरणशरणोऽपि भैषीः ? | नाऽहमस्मै प्राणसन्देहेऽपि त्वामर्पये |
1
श्येन:- नृपतिलक !
निर्विशेषं महान्तः स्युः, शरण्याः शरणाऽर्थिनाम् ।
जाड्यं नो कस्य शीताऽऽर्त्तस्याऽग्निस्पर्शात् प्रशाम्यति ।
ततो यथा त्वमेतस्मै मुहुर्मुहुः 'मा भैषीः ' वचनानि प्रयच्छसि तथा मामपि क्षुधा - यास्त्रातुमर्हसि । कालक्षेपाऽसहिष्णवो हि मत्प्राणास्तव पश्यत एव प्रयान्त्येते ।
राजा - (ससम्भ्रमम्) कोऽत्र भोः सूपकारेषु ? ।
(प्रविश्य)
चुन्दलक:- अयमस्मि, समाज्ञापयतु देवः ।
(राजा - चुन्दलकस्य कर्ण एवमेव )
(ततश्चुन्दलको निष्क्रम्य गृहीतदिव्यमोदकस्थालीकः प्रविशति ।)
श्रीवज्रायुधकथा ।
१९९