________________
(प्रकाशं) क्षत्रियाऽवचूल ! राजन् ! यानाश्रित्य पराक्रमो विजयते दिग्मूलकूलङ्कषः सङ्ग्रामेषु विधाय तानपि परोलक्षान् विलक्षान्नृपान् । व्योमाऽन्तर्गतभानुनेव भवता विश्वकराजेन भूराक्रान्ता स्वकरैस्ततः किमनयध्वान्तेन विस्फूर्च्यते ? ॥ अपि च, (सदैन्यमिव)शूरस्त्वं यदसि प्रतापवसतिर्जिष्णुर्यदिष्टः श्रिया, ईशानो यदुमाप्रियो विधिरसि त्वं यत्प्रजानां पतिः । श्रीदो यन्निधिनायकस्त्वमसि चार्हन् यत्क्षमारक्षितेत्येवं देवमयोऽसि देव ! तदतः श्येनाऽधमात् पाहि माम् ॥
राजा- अरे पक्षिन् ! मा भैषीः, मा भैषीः । अयमहमस्मि कीनाशाऽऽस्य-कुहरादपि भवतस्त्राता।
पारा०- (साऽऽनन्दमिलातललुलितभालतलो राजानमानम्य) महाप्रसादः (इति वदन् अपत्यमिव पितुरुत्सङ्गं राज्ञः समारुह्य किञ्चित्स्वास्थ्यमिवाऽभिनीतवान् ।)
(परिजनः परस्परमुपर्युपरि स्थितिमाधाय चरणफणाऽवस्थानेन सकौतुकमवलोकयति ।) श्येन:- (साऽवष्टम्भम्) राजन् ! ममैतद्भक्ष्यमित्येवं, प्रसिद्ध जगतीतले । तदर्पयैनमात्मानं, तर्पयामि यथाऽऽतुरम् ॥ राजा- (सस्मितम्) पक्षिराज ! अप्यात्मनाशे शरणाऽर्पणाय, किं स्यान्मनः क्षत्रियवंशपुंसः । नागस्त्यपीतादपि मेनकायाः, सुतं समुद्राज्जगृहे महेन्द्रः ॥ किञ्चन युज्यते श्येन ! तवैतदेतत्, प्राणैर्निजप्राणितपोषणं यत् ।। भुक्तेऽप्यमुष्मिन् क्षणमेव तृप्तिः, स्यात्ते ह्यकालेऽस्य तु कालरात्रिः ॥
१९८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।