________________
लक्ष्मी:- (हस्तन्यस्तकपोलतला तूष्णीमास्ते ।)
प्रियं- (स्वगतम्)
इट्ठे जेणे धुवमुवद्दवसंसएवि, सेओविवज्जयमई अवरो वि भोदि । एसा पुणो पणयणी पइणो मणंमि, लद्धासणा नणु भविस्सदि किं न एवं ॥
(सनिःश्वासं च) कहं पुण सामिणीए मणो विणोयइस्सं ।
(प्रविश्य)
क्षेमङ्करा दासी - सामिणि ! सामिणि ! सरणीकिददेवपायमूलस्स पारेवयस्स थंभनिज्जूहयनिसण्णस्स सेणस्स य निरक्खणत्थं मिलिदो सव्वो वि णयरजणो त्ति, अज्जा तुमं पि हक्कारेदि ।
(लक्ष्मी:- ससम्भ्रममुत्थाय सखीभ्यां सह सौधाय परिक्रामति ।)
(ततः प्रविशति यथा निर्दिष्टो राजा श्येनः पारावतः अमात्य - पुरुषोत्तमसहस्त्रायुधप्रभृतिकश्च परिवारः) ।
पारापतः- (स्वगतं) अहो ! स्वैरप्रलपितेषु मानोर्ध्वं पाण्डित्यमाखण्डलस्य–
आस्ते कश्चन काञ्चनप्रतिकृतिर्मर्त्यः पृथिव्यां स चा-, चाल्यः स्वर्गनिवासिनामपि वपुश्छेदेऽपि मानाद्ध्रुवम् । किञ्च प्रत्युत मण्डनं स भविता तेषामपीति ब्रुवन्नीशानाऽधिपतिस्ततान न मनः कस्य प्रकोपाऽऽकुलम् ? ॥ किमन्यदुच्यते ?,
अयमहमधुना कृतवानेव मोघं मघोनस्तद्वचनम् । अथवाआत्मानं ख्यापयेद्विद्वान्नानिष्पन्नप्रयोजनः । राहुर्गृहीतचन्द्राऽर्को दृश्यते दिवि नाऽन्यदा ।
१. इष्टे जने ध्रुवमुपद्रवसंशयेऽपि श्रेयोविपर्ययमतिरपरोऽपि भवति । एषा पुनः प्रणयिनी पत्युर्मनसि लब्धासना ननु भविष्यति किं नैवम् ? ॥ कथं पुनः स्वामिन्या मनो विनोदयिष्यामि ? |
२. स्वामिनि ! स्वामिनि ! शरणीकृतदेवपादमूलस्य पारापतस्य स्तम्भनिर्यूहकनिषण्णस्य श्येनस्य च निरीक्षणार्थं मिलितः सर्वोऽपि नगरजन इति आर्या युष्मानपि आकारयति ।
श्रीवज्रायुधकथा |
१९७