________________
प्रियं०– अज्जेव अट्ठमीदिणं ति नाऊण जुज्झोवज्जियपावस्स सोहिं काउं इओ ट्ठाणओ बाहिरबाहिरो य्येव धम्मसालाए गओ सामी । तओ तत्थट्ठियस्स सामिणो तक्खणे च्चेय आगासाउ मणोवेगेण ओयरिय भयभीयमाणसो कंपमाणसव्वंगो संकोचिदक्खंधबंधो 'ताएहि मं, ताएहि मं'ति मणुस्सभासाए भासमाणो एगो पारेवओ तिहुयणिक्कसरणं चरणमूलमल्लीणो । लक्ष्मीः– अहो ! कंदलिदभयकोदूहलो कहारसो । तदो तदो ? |
प्रियं० - तओ गरुडुव्व भुयंगमस्स तस्स मग्गाणुसारी खुहाकरालकुक्खी अणवट्ठियअक्खी 'मम भक्खमप्पेहि, मम भक्खमप्पेहि त्ति भासतो एगो होलाहिओ समागदो त्ति मए सुदं । अओ वरं किं पि भविस्सदि त्ति न याणामि ।
लक्ष्मीः– (क्षणमिव ध्यात्वा) पियंवए ! हुंते वि बहुमि पलायणट्ठाणे अणेगलोग संकुले तत्थ आगच्छिय सो पारेवओ अज्जउत्तस्स पायमूले निसन्नो, तं ण खु मे सुरूवं पडिहादि । किञ्च अस्सुदपुव्वं खु एदं, जं सउणावि पुरुसभासाए भासंति त्ति ।
प्रियं॰— दैवि ! जुत्तं भणासि, जओ ममावि मणो वियारवई संवट्टदि ।
सच्चत्तेण किमेस सेणभयओ पारेवओ नट्ठवं ?,
सं रूवं परिवत्तिऊण किमयं विज्जाहरो कीलदि ?,
किं वा सत्तपरिक्खणाय पहुणो सग्गा समुत्तिष्णओ देवो को विभवे ?, मयच्छि ! इय नो सम्मं वियाणीयदि ।
१. अद्यैव अष्टमीदिनमिति ज्ञात्वा युद्धोपार्जितपापस्य शोधिं कर्त्तुं इतः स्थानाद्बाह्य बाह्य एव धर्मशालायां गतः स्वामी । ततस्तत्र स्थितस्य स्वामिन: तत्क्षण एव आकाशाद् मनोवेगेन अवतीर्य भयभीतमानसः कम्पमानसर्वाऽङ्गः सङ्कोचितस्कन्धबन्ध: 'त्रायस्व माम्, त्रायस्व माम्' इति मनुष्यभाषया भाषमाण एकः पारापतस्त्रिभुवनैकशरणं चरणमूलमालीनः ।
२. अहो ! कन्दलितभयकुतूहल: कथारसः । ततस्तत: ? ।
३. ततो गरुड इव भुजङ्गमस्य तस्य मार्गानुसारी क्षुधाकरालकुक्षिः अनवस्थिताऽक्षी 'मम भक्ष्यमर्पय मम भक्ष्यमर्पय' इति भाषमाण एकः श्येनः समागत इति मया श्रुतम् । अतः परं किमपि भविष्यति इति न जानामि ।
४. प्रियंवदे ! भवत्यपि बहुनि पलायनस्थानेऽनेकलोकसङ्कुले तत्र आगत्य स पारापत आर्यपुत्रस्य पादमूले निषण्णः, तन्न खलु मम सुरूपं प्रतिभाति । किञ्च अश्रुतपूर्वं खल्वेतत् यच्छकुना अपि पुरुषभाषया भाषन्त इति ।
५. देवि ! युक्तं भणसि, यतो ममाऽपि मनोविचारवर्ति संवर्त्तते ।
सत्यत्वेन किमेष श्येनभयतः पारापतो नष्टवान् ?,
स्वं रूपं परावृत्य किमयं विद्याधरः क्रीडति ?,
किं वा सत्त्वपरीक्षणाय प्रभोः स्वर्गात् समुत्तीर्णो
देव: कोऽपि भवेत् ?, मृगाक्षि ! इति नो सम्यग् विज्ञायते ।
१९६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।