SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ राजा- (सक्रोधम्)आः कालेन कटाक्षितः किमसि ? किं त्वत्पत्रमुत्क्षिप्तवदैवं दृष्टिविषोरगं किमगमः ? किं मर्तुकामः स्वयम् ? । मिथ्यौजस्विमहीश्वर ! श्वयथुवद्दोर्दण्डकण्डूच्छिदेऽस्माभिः सम्प्रति शस्त्रकर्मनिपुणैर्ययुद्धबुद्धिर्भवान् ॥ बुद्धिo- (राजानं प्रति)ये तावत्पृथिवीभुजः समभजंस्त्वत्खड्गधाराव्रतं, मर्त्यत्वादधिकश्रियः समभवंस्ते देव ! देवा दिवि । देवोऽयं स्पृहयन् दिवस्पतिपदं त्वं शस्त्रहस्तो भवे-, त्याह त्वां तदिदं कुरून्नतिकृतिख्याता हि युष्मादृशः ॥ देवः- (बुद्धिनिवासं प्रति) अरे भृत्याऽपसद! न जानीमस्तमुपायं येनाऽस्मादस्मानमरानपि मारयिष्यसि (इति वदन् क्रोधाऽऽध्मातः क्रीडाशैल-मुत्पाट्य मुञ्चति ।) (विना राजानमन्ये काकनाशं नश्यन्ति ।) लक्ष्मी:- (नाऽतिदूरं प्रदेशाऽन्तरमाश्रित्याह) अज्जउत्त ! हा वसुधाधरणे-क्कमल्ल! देहि मे पडिवयणं (इति मूर्च्छति ।) (ततश्च चिरेण किञ्चिल्लब्धचैतन्या आकाशे परिजनं लक्षीकृत्याऽऽह ।) वसणे सामिय ! मेक्कं, चयित्तु किं जीवियेण तुम्हाण ? । पिच्छह चन्दग्गहणे, हरिणेण न एस परिचत्तो । (पुनर्विमृश्य) 'सव्वोऽपि जणो परस्स दोसग्गहणे निउणत्तणं पत्तो न उण अत्तणो' त्ति लोयवयणं सच्चगं य्येव संजायं । जेण भत्तुणो। पायमूलं परिचईय परियणो अहंपि नट्ठा, तओ कहमहं परं परियणमुवलभामि ? । न उण सामिसिणेहविवरीयकारिणमप्पाणं ति (पश्चात् परिक्रामति ।) १. आर्यपुत्र ! हा वसुधाधरणैकमल्ल ! देहि मे प्रतिवचनम् । व्यसने स्वामिन् ! मामेकां त्यक्त्वा किं जीवितेन युष्माकम् ? । प्रेक्षध्वं चन्द्रग्रहणे हरिणेन न एष परित्यक्तः ।। 'सर्वोऽपि जनः परस्य दोषग्रहणे निपुणत्वं प्राप्तो न पुनरात्मन' इति लोकवचनं सत्यकमेव सञ्जातम् । येन भर्तुः पादमूलं परित्यज्य परिजनोऽहमपि नष्टा, ततः कथमहं परं परिजनमुपलभे? । न पुनः स्वामिस्नेहविपरीतकारिणमात्मानमिति । १९४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy