SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ राजा- (ससम्भ्रममूर्ध्वमवलोक्य) बुद्धिनिवास! किमेतच्छब्दायमानं ज्योतिरागच्छति? । बुद्धिनिवासः- देव ! यथैतत्कठिनवचनान्याचष्टे तथा जानेऽकाण्डकुपितः कश्चनाऽपि देवो भवन्तं योधयितुकामः समभ्येति । (ततः प्रविशति तेजःपरीतशरीरो विद्युदंष्ट्राऽभिधो देवः ।) राजा- (तत्राऽवज्ञां नाटयन्) देवि ! पश्य ऋतुसार्वभौमवसन्तस्य प्रभावम् । स्वयं मानं मक्त्वा पतिचरणमले निपतिता, सखीहासत्रासाद्युवतिरियमूर्वीभवति न । पतिस्त्वीषत्प्रेडत्स्मितविततदन्तद्युतिगुरू-, दरः सारङ्गाक्षीमयमदयमालिङ्गतितराम् । चन्द्रानना- (संस्कृतमाश्रित्य राजानं प्रति) देव ! इतः पश्यप्रियया प्रियस्य चित्तं, भिन्नं दरादचेतनं तत्सः । बहिराक्रष्टुमिवाऽस्याः, पुरतो वदनेऽङ्गुली: क्षिपति ॥ देव:- (सरोषं किञ्चित्समीपीभूय) अरे वज्रायुध ! न यावत्प्रादुःष्यान्मदसिगरुडस्तावदपरे, नरेशव्यालाः स्युर्बहलगरलोद्गारगुरवः । स्थिते त्वस्मिन् साक्षाद्गिरिकुहरवल्मीकशरणा, भवेयुः खल्वेते त्वमिति मयि रीढां द्रढयसि । तन्न साम्प्रतम् । यतःयुधि विजयसे यत्त्वं भूपानुपाधिरुपासकस्तव तदखिलक्ष्माभृच्चक्राऽपमानकचक्रिता । प्रभवति न सा दैवत्वान्मे न किञ्चन मन्यसे, जगदपि यया तन्माऽस्मान् रे ! मदादवजीगणः ॥ किन्तुबाहबाहविशक्तिश्चेत्तद्वाहं स्वं प्रदर्शय । अथाऽस्यसि तथाऽपि त्वं करवालं करे कुरु ॥ श्रीवज्रायुधकथा। १९३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy