________________
पुव्वं रायवहूओ, सपुत्तपयपत्तिपत्थणसणाहा । पयनिणयंमि सोक्खं, एगाइ पराण रणरणओ ॥
उद्यानपालक:
यति देवी ।
१९२
(उच्चैःस्वरं) देव ! त्वर्यतां त्वर्यताम्, अत्र स्थिता युष्मान् प्रतिपाल
(राजा तदाकर्ण्य सत्वरं गमनेन देवीमुपसर्पति)
राजा - देवि ! इतस्तावत्कृताऽर्थीकुरु चक्षुषी । केतक्यां बकुलेभ्योऽभ्यागच्छद्भृङ्गाऽऽवलिच्छलात् । अन्याऽभिष्वङ्गभङ्गाय, मिथः सन्दानमेतयोः ॥ गुणः– देव ! इतः पश्य ।
जनितद्विजिह्वभीतिः, शशिविशदकलाकलापसम्पूर्ण: । सहचर्या सह चर्यामत्र करोति त्वमिव केकी ॥
(नेपथ्ये स्वगतम्)
यतः प्रारभ्य देवत्वेनाऽहमभवं ततः प्रभृति क्षुण्णमीक्षमाणस्य ममाऽधुनाऽमुना प्रत्यर्थिना दृष्टिपथमवतीर्णम्, भवतु तावत्, दुरात्मानमेनं वज्रायुधं व्यापाद्य प्रस्तुतमाचरिष्यामि (इति सत्वरमुपक्रामति । उच्चैः स्वरं च )
अरे प्राग्जन्माऽरे ! त्वमनुभव तावत्सहचरीपरीरम्भाऽऽरम्भात्सुखमभिसहे यावदधुना । मृगेन्द्रे निस्तन्द्रे खरनखरकोटिक्षतशिरा, वराको निःशङ्कं प्रभवति न रन्तुं गजपतिः ॥ किञ्च रे !
विमुञ्च त्वं क्रीडां भज सुभटभावं भव मया, नियुद्ध श्रद्धालुर्वेद मदकिर: सङ्गरगिरः । न चेदित्थं दारव्यतिकरपरिष्कारमधुरो, भवानावासेऽभूदतिथिपथपान्थोऽन्तकपतेः ।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।