________________
चूतः कोकिलकामिनीकलरवैः प्रारब्धगीतध्वनिवंशं पूरयति क्वणन्मधुकरश्रेणिच्छलात्केतकः । वातोद्भूतशिखामिषादनुकलं दत्ते लता हस्तका-, नातोद्यं वितनोति पर्वतपतद्वाचालवारिस्वरः ।। राजा:- बुद्धिनिवास ! द्रष्टव्यं वस्त्वभीष्टाय, प्रदर्श्य स्वयमीक्ष्यते । नाऽदृष्टमरुणेनैष, जगत्पश्यति भास्करः ॥
ततो यावद्देवी क्रीडोद्यानमलङ्करोति तावदस्मिन् देववेश्मनि क्षणं प्रतीक्षामहे, पश्चात्सममेवाऽऽरामलक्ष्मीमवलोकयिष्याम इति ।
(सर्वे तथा नाटयन्ति) राजा- (देवताऽऽयतनाऽभिमुखमालोक्य) कथमादितीर्थङ्करप्रतिमेव दृश्यते ? (सहर्ष सहसाऽपसृत्योपस्तौति)
आदौ यो विततान मानवभवभ्राजिष्णुविष्णुप्रियासम्पद्धेतुकलाकलापभवनावज्ञानदीनाऽऽत्मनि । किञ्चाऽमुत्र पवित्रवाक्यरचनाधर्मोपदेशाद्ददौ, शश्वन्मोक्षसुखं स नाभितनुजः श्रेयांसि पुष्णातु नः ॥
(नेपथ्ये) ईदो इदो देवी लच्छीवई।
लक्ष्मीवती- चंदाऽऽणणे ! जदो पभुदि मे पुत्तो सहस्साउहो अज्जउत्तेण नियजुवरायपए निवेसिदो तदो पभुदि य्येव मे अंगाणि तथाविहनिव्वुइभायणत्तणं पत्ताणि ।
चन्द्राऽऽनना- देवि ! एवं नेदम् । १. इत इतो देवी लक्ष्मीवती । २. चन्द्राऽऽनने ! यतः प्रभृति मे पुत्रः सहस्राऽऽयुध आर्यपुत्रेण निजयुवराजपदे निवेशितः, ततः प्रभृत्येव मे अङ्गानि तथाविधनिर्वृति
भाजनत्वं प्राप्तानि । ३. देवि ! एवमेतत् ।
पूर्वं राजवध्वः स्वपुत्रपदप्राप्तिप्रार्थनसनाथाः । पदनिर्णये सौख्यं एकस्याः परासां रणरणकः ॥
श्रीवज्रायुधकथा ।
१९१