SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ इतश्च स्वर्गे द्वितीये, त्विन्द्रः सामानिकाऽऽवृतः । अप्सरोभिर्गीयमानगुणग्रामः शचीयुतः ॥२१॥ प्रतिष्ठापात्रैर्गीर्वाणैर्विदधत्सत्कथां सताम् । दातॄणां सात्त्विकानां च, सत्यानां भुवि देहिनाम् ॥२२॥ उवाच शक्रः स्वर्गेभ्यः, पातालेभ्योऽपि भूर्वरा । यदियं सात्त्विकक्षेत्रं, सात्त्विके स्युर्गुणाः परे ॥२३॥ [त्रिभिर्विशेषकम्] तन्न सत्त्वं हि देवानां, दैत्यानां व्यन्तराऽऽत्मनाम् । ज्योतिष्काणां च यत्सत्त्वं, मनुष्याणां निरर्गलम् ॥२४॥ तत्राऽपि तारतम्येन, प्रोत्सर्पत्सत्त्वमुच्चकैः । प्राप वज्रायुधे निष्ठां, सत्त्वं नाऽतः परं यतः ।।२५।। तत्र स्थितं च तत्सत्त्वं, वज्रे रेखेव नाऽन्यथा । कर्तुं हि पार्यते देवैरप्यवार्यपराक्रमैः ॥२६।। ततश्चाऽसहमानस्तत्प्रशंसां कोऽपि निर्जरः । अनुवज्रायुधं सत्त्वधुरीणा इति कोपवान् ॥२७॥ देवानां पुरतो मर्त्याः, शस्यन्त इति हास्यवान् । धिक् प्रभुत्वं न यत्राऽस्ति, विचार इति खेदवान् ॥२८॥ कुर्वे छत्रं महीं दण्डं, मेरुमित्यवलेपवान् । एषोऽहं चालयाम्येनं, सत्त्वादित्यनुबन्धवान् ॥२९॥ वीक्ष्यमाणः क्रुधा शक्रं, सभायां विक्षिपन् दृशम् । क्षोभयंश्च सुरीवर्ग, निर्ययौ संसदो बहिः ॥३०॥ वयस्येन किलैकेनाऽन्वीयमानः सुरः स तु । उवाच प्रथमं शौर्ये, परीक्ष्योऽयं मया पुमान् ॥३१॥ दैवाच्च तत्र नियूँढो, वीक्ष्यः सत्त्वे श्लथोऽभवन् । द्विःपरीक्षितुमारब्धो, निर्वाहं याति कोऽपि किम् ? ॥३२॥ श्रीवज्रायुधकथा। १८९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy