SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ यो बाल्यादपि विज्ञातकर्तव्यक्रमसङ्गमः । साक्षिमात्रं कलाऽऽचार्यमाधायाऽध्यैष्ट सत्कलाः ॥९॥ स्वीकुर्वन् यौवनं रम्यं, स्वीकृतो रूपसम्पदा । ऊरीकुर्वन् गुणग्रामं, विद्वद्भिररीकृतः ॥१०॥ अङ्गीकुर्वन् महादानं, यशसाऽङ्गीकृतो मुदा । त्यजन् दोषकुलं दूरात्, सन्त्यक्तो व्यसनैरपि ॥११॥ गृह्णन् परगुणान् काले, माहात्म्येनाऽप्यगृह्यत । कुर्वन् परप्रशंसां च, चक्रे ख्यातः प्रशंसया ॥१२॥ आश्लिष्यन् विक्रमं स्नेहादाश्लिष्टो विजयश्रिया । पोषयन्न्यायमेवोच्चै नाश्रिभिरपोष्यत ॥१३॥ शुश्रूषमाणः स्वगुरून्, शुश्रूषितः किलोत्तमैः । शृण्वानो धर्मशास्त्राणि, गीयमानश्रुतो जनैः ॥१४॥ अनिच्छन् परकलत्राण्यनिष्टो दुर्गतेरभूत् । रक्षयन् सर्वभूतानि, रक्षितस्त्रिदशैरपि ॥१५॥ विदधद्देवपूजां च, धर्मेण विदधेऽर्चितः । मान्यांश्च मानयन् भक्त्या, मानितः शत्रुभिः स्वयम् ॥१६॥ सात्त्विकानां चक्रवर्ती, सत्यानां पुनरग्रणीः । आश्रितानां च कल्पद्रुर्लीलाकौतुकपर्वतः ॥१७।। दोषैककण्टकक्षेत्रे, गुणग्रामाऽब्जिनी हिमे । यौवनेऽपि क्रमाच्चक्रे, स पुमर्थत्रयं सदा ॥१८॥ यतः- धर्माऽर्थकामत्रिपदीगतः स्यादुद्यौवने यः पुरुषोत्तमः सः । योऽक्ष्णामिवैषां त्रितयस्य मध्यादेकेन हीनः स किमीश्वरः स्यात् ? ॥१९॥ एवं गुणाऽनुरूपाऽङ्गः, कुमारो लोकजीवितम् । यौवराज्यं प्रपेदानः, प्राप वज्रायुधो यशः ॥२०॥ १८८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy