________________
श्रीवज्रायुधकथा
अथ प्रणम्य राजाऽऽह, जैनाऽऽचार्यान् कृताऽञ्जलिः । जैनसात्त्विकवृत्तान्तं, समादिशत मां प्रति ॥१॥ स्वचित्ते दध्युराचार्या, यदस्मानेष भूपतिः । पप्रच्छ साञ्जसं नत्वा, तत्प्रबोधं समेष्यति ॥२॥ सम्यक्त्वमूलचारित्रज्ञानाऽधिगमभाग्यवान् । जिनधर्मश्रुतिश्रद्धां, स्वयमेत्यल्पकर्मकः ॥३॥ राजानं प्रोचुराचार्याः, शृणुत श्रद्धया ननु । दयादानक्षमानाथां, वज्रायुधकथां, प्रथाम् ॥४॥ प्राग्विदेहे समस्तीह, नगरी रत्नसञ्चया । या सद्विवेकसम्पत्त्योः, पाणिग्रहणवेदिका ॥५॥ प्रजानां न्यायतः क्षेमकारः क्षेमङ्करो नृपः । तत्राऽस्ति पृथिवी तन्व्या, यज्जीवितेन जीवितम् ॥६॥ तस्य चाऽस्ति सती धर्मनरेन्द्राऽऽस्थानमण्डपा । जगन्मित्रं कलत्रं तु, रत्नमालेति नामतः ॥७॥ सुस्वप्नसूचितः प्राज्यसाम्राज्यप्रभुताऽऽस्पदम् । तयोर्जज्ञे सुतो वज्रायुधो वज्रं महीभृताम् ॥८॥
श्रीवज्रायुधकथा ।
१८७