________________
प्रतीहारमुखप्राप्तविजिज्ञपयिषून् जनान् । दूरतो नमतः प्रेक्ष्य, किमेतदित्यचिन्तयत् ॥४२१॥ किं नु स्वप्नो मया दृष्टः ?, किं वा मे मनसो भ्रमः ? । किं वा कस्याऽपि दिव्यस्य, चित्रमेतद्विजृम्भितम् ? ॥४२२॥ ततश्च तापसो व्योम्नि, दत्ताऽऽशीरभवत्पुरा । यथाऽसि वासवेनोक्तस्तथा दृष्टोऽसि सात्त्विक ! ॥४२३।। अनुभूतं त्वया यच्च, तत्सर्वं हि कृतं मया । तत्क्षमस्व चिरं जीयाः,स्वसत्त्वेन महीपते ! ॥४२४।।
अनपेक्षो यद्यपि त्वं, परदत्तश्रियं प्रति । तथाऽपि त्वयि प्रयुक्तकष्टाऽजिताऽऽघशुद्धये ॥४२५।। ददामि तपसा स्वेन, त्वन्नाम्नाऽस्तु पुरी तव । अन्तरिक्षे भवांस्तत्र, क्रियात्साम्राज्यमद्भुतम् ॥४२६।। इत्युक्त्वा तापसो दिव्यशक्त्याऽथ क्वचिदप्यगात् । पूर्ववच्च हरिश्चन्द्रो, निजाः पालयति प्रजाः ॥४२७।। इति तापसनिर्दिष्टां, हरिश्चन्द्रकथां तथा । श्रुत्वाऽथ मुमुदे श्रीमानजापुत्रो महीपतिः ॥४२८।।
इति हरिश्चन्द्रकथा ॥
१८६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।