________________
इति सत्त्वाऽनिलोद्भूताऽपत्याऽऽबन्धः स सात्त्विकः । भूत्वा पराङ्मुखोऽशक्तो, याचितुं स्फुटया गिरा ॥४०९।। अर्पयाऽऽच्छादनमिति, सञ्जया प्रतिपादयन् । हस्तं प्रसारयामास, हरिश्चन्द्रः प्रियां प्रति ॥४१०।। सुताराऽपि च तदभिप्रायं स्फुटमजानती । उच्चिक्षेप करे दातुं, रोहिताऽश्वं मुहुस्ततः ॥४११॥ अगृह्णति हरिश्चन्द्रे, पुत्रं साऽऽह ब्रवीषि किम् ? । न जानामि तवैतां हि, सञ्ज्ञां त्वं ब्रूहि तत्स्फुटम् ॥४१२॥ धैर्यसन्दंशकाऽऽकृष्टवचनः सात्त्विकोऽवदत् । देवि ! तिष्ठतु वत्सोऽयं, वत्साऽऽच्छादनमर्पय ? ॥४१३।। ततः कल्पद्रुमोद्भूतपुष्पवृष्टिरभूद्दिवः । अहो ! सत्त्वमहो ! सत्त्वमिति गीश्च व्यजृम्भत ॥४१४॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कृतमहासिंहासनं स्वसदसि स्थितम् ॥४१५।। रोहिताश्वमपश्यच्च, क्रोडे क्रीडन्तमात्मनः । अश्रान्तकान्तिरत्नाऽङ्कहारस्फारश्रियं मुदा ॥४१६॥ मुनिशापवशात्कीरशृगालत्वं पुराऽऽगतौ । कुन्तलं वसुभूति च, पुरोऽद्राक्षीत् कृताऽञ्जलिम् ॥४१७॥ यमनिकाऽन्तरे चैव, द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च, सखीं शुश्राव भूपतिः ॥४१८॥ पुरतश्च सुसङ्गीतरसनिर्मग्नचेतसाम् । नृपाऽमात्यप्रभृतीनामद्राक्षीत्संसदं निजाम् ॥४१९॥ प्रतिमन्दिरमैक्षिष्ट, क्रियमाणं च नागरैः । नृत्यत्पुरन्ध्रिविश्राण्यमानदानं महोत्सवम् ॥४२०॥
सत्यहरिश्चन्द्रकथा ।
१८५