________________
सुतारां प्राह देवि ! त्वं, किं रोदिषि तथा कथम् ? । वत्सो मां भाषते नैव, भवत्या रोषितः किमु ? ||३९७|| किं त्वया मोदको नाऽस्मै, दत्तः ? किं परिधापित: ? | नोद्यद्रत्नाऽङ्कितं हारं, किं हस्ती नाऽर्पितो मया ? || ३९८॥ क्षमस्व वत्स ! लाहि त्वं, स्वेच्छया यत्तु रोचते । इत्यनुकूलयन् पुत्रं, देव्याऽसौ परिदेवितः ॥ ३९९ ॥ किं न पश्यसि मूढ ! त्वं, गताऽसुं तनयं निजम् ? । गताऽसुश्च कथं पश्येदाश्लिष्येन्निगदेद्धसेत् ? ॥४००|| किमारब्धं त्वया सार्धं, नार्या ? किं नैषि वेगत: ? | इत्युक्तः श्वपचेनाऽसौ, भयाच्चैतन्यमासदत् ॥४०१॥ अज्ञासीच्च मृतं पुत्रं, चेष्टयाऽथाऽश्रुलोचनः । पप्रच्छ सुतारां पुत्रवृत्तान्तं साऽप्यचीकथत् ॥ ४०२॥ अद्याऽयं प्रातरेवाऽऽगात्समित्पुष्पकृते वने । मदभाग्यादसौ दष्टो, दुष्टेन भुजगेन हा ! ||४०३ || विनाऽऽत्मीयान्न कोऽप्यस्य, विषस्योत्तारणं व्यधात् । आत्मेव हि विना धर्माच्छून्यं बन्धुं विना जगत् ॥४०४॥ हरिश्चन्द्रस्ततो दध्यौ, धिग्मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ॥४०५॥ कथं मे वक्ष्यतो हस्तौ, पुत्रवस्त्राऽऽहृतौ हहा !!? | स्वाम्यादेशमकर्तुं यन्नैवोजस्वि मनो मम ||४०६|| अथवा मे पुत्रमृत्यौ, को विचारो ? यदस्म्यहम् । श्वपचाऽधीनदेहस्तद्यद्वक्ति स करोमि तत् ॥ ४०७॥৷ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलङ्कितः । सत्त्वैकतानवृत्तीनां, नाऽपत्याऽऽद्यनुरागता ||४०८।।
१८४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।