________________
वत्सो मृत इति वाचं, प्रतिघ्नन् मङ्गलोक्तिभिः । वामाऽक्षिस्पन्दनेनाऽथ, बभूवाऽऽशङ्किमानसः ॥३८५॥ सर्वस्वं मुनये दत्तं, विक्रीतौ दयितासुतौ । चाण्डालकर्मकृच्चाऽहं, किं वा मे भाव्यतः परम् ? ॥३८६॥ इति चिन्ताऽऽतुरो यावन्नग्रे गच्छेद्धरिस्ततः । चाण्डालपतिना प्रोक्तो, व्याघुट्येति व्यजिज्ञपत् ॥३८७।। आगतोऽस्ति मृतो बाल, इति वस्त्राऽऽहतौ त्रपा । स्वाम्याह का त्रपाऽस्माकमाचारोऽयं गृहाण तत् ॥३८८॥ निवृत्याऽथ हरिदध्यौ, धिग् लोभं यद्वशाज्जनः । वेत्ति कृत्यमकृत्यं वा, नैव दैवहतो हहा !! ॥३८९॥ यदादिशति मे स्वामी, तत्कर्तव्यं मया खलु । स्वामिना स्वयमुक्तस्य, न विचारोऽनुजीविनाम् ॥३९०॥ गच्छन्निति स शुश्राव, नारीविलापमुच्चकैः । हहा !! पुत्र ! त्वमेको मे, तन्मे मृत्युस्त्वया सह ॥३९१॥ त्वं ममैवाऽसि कुपितं, रे दैव ! यत्पतिर्मम । बभूव कर्मकृन्नीचगेहेऽहमपि तादृशी ॥३९२॥ परमस्य सुपुत्रस्य, भरताऽन्वयशालिनः । आलम्बनेन जीवन्त्याः, का गतिस्तन्ममाऽधुना ? ॥३९३।। हरिश्चन्द्रोऽपि विज्ञाय, सुतारां त्वरितो व्रजन् । मुञ्चन्नश्रूण्यथाऽवादीन्निन्दन्नात्मानमात्मना ॥३९४।। निर्भाग्यशेखरे ! देवि !, वज्रघातः क एष नौ ? । वनिता वीक्ष्य भर्तारं, तारतारं रुरोद सा ॥३९५।। हरिश्चन्द्रोऽप्यरोदीच्च, धैर्यं कस्य सुतव्यये ? । रोहिताश्वं हरिर्मोहादाश्लिष्यत् किल पूर्ववत् ॥३९६।।
सत्यहरिश्चन्द्रकथा ।
१८३