________________
त्वं मामभिजानासीति, पृष्टस्तेन हरिर्जगौ । कौटिल्यस्त्वं महीदाने, साक्षी कुलपतेरसि ॥ ३७३ ॥ ततो माऽभून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति । औषध्या व्रणरोहिण्या, स्वेनाऽलिम्पत्स तद्वपुः ॥३७४॥ अभूच्च तत्क्षणादेव, रूढव्रणवपुर्हरिः । ययौ च तापसः स्थाने, स्वे दध्यौ हरिरप्यथ ॥ ३७५॥ नाऽपूर्णं मेऽभवत्किञ्चित्, सर्वस्वं ददतो मुने: । विद्याधर्या न यत्सिद्धिर्जातेति तद्दुनोति माम् ||३७६॥
अरे ! क्व त्वं गतोऽसीति, प्राहूतः श्वपचेन स: । उपसृत्याऽऽह कर्तव्यं, मम स्वामिन्! समादिश ? ||३७७|| स आहैष मृतः कोऽपि, समायाति ततो भवान् । वस्त्रं गृह्णातु गत्वेति, प्रेषितोऽगाद्धरिस्ततः ॥३७८॥
अशृणोच्छब्दमेकस्याः, करुणाऽऽर्तं सुतव्ययात् । हा ! पुत्र ! क्व गतोऽसीति ?, मूर्च्छन्त्याश्च स्त्रिया मुहुः ||३७९ ||
अहो ! दैवेन निर्मुक्तकरुणेन किलाऽङ्गजम् । व्यापादयिता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता ॥ ३८० ॥
अहो ! असारः संसारो, मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत्तु, ग्राह्यत्येव यो यमात् ॥३८१॥
कथं चाऽहं ग्रहीष्यामि, बालस्योर्ध्वात् किलाऽम्बरम् ? । इति मन्दपदः प्रोक्तः, श्वपचेनाऽऽशु गच्छ रे ! ॥ ३८२॥
सभयं परिचक्राम, हरिश्चन्द्रः सुतं स्मरन् । न शुद्धयेद्यदि देवी मे, तदा वत्सो म्रियेत सः ॥ ३८३॥ ततः शुश्राव करुणं, रुदन्तीं वनितामिति । निर्भाग्यशेखराया मे, मृतो वत्सो हताऽस्मि हा ! ॥३८४॥
१८२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।