________________
ऊचे च परितः खड्गहस्तान् विद्याधरोत्तमान् । मा दत्ताऽत्र प्रवेशं भोः !, श्वापदस्य नरस्य च ॥३६१॥ कियत्यपि कृते होमेऽभूत्प्रादुर्देवतामुखम् । हर्षान्मांसं हरिदत्ते, स्वमुत्कृत्य जुहोति सा ॥३६२।। ततो गोमायुरटितं, कुण्डानि परितोऽभवत् । विषादार्ता ततो विद्याधडूंचेऽयं निवार्यताम् ॥३६३।। सर्वैः स नाश्यमानोऽपि, प्रत्युताऽगात्समीपगः । जजागार ततश्चाऽऽरादाश्रमात्तापसः क्षणात् ॥३६४॥ किञ्चित्किञ्चित्ततो विद्यामुखमधो ममज्ज च । हा हा !!! हताऽस्म्यपर्याप्तहोमा तत् किं करोम्यहम् ? ॥३६५।। सावष्टम्भं हरिः प्राह, मा विषीद गृहाण मे । छित्त्वा शिरोऽपि पर्यन्ताऽऽहुतिहोमं समापय ॥३६६।। विद्याधर्याह क्रमशो, होमः स्यान्ननु नाऽक्रमात् । क्रमं च क्षमते नैष, तापसः क्रोधमावहन् ॥३६७॥ अरे ! किमेतदारब्धमस्मदाऽऽश्रमभूमिषु ? । इत्याक्रोशन् प्रविष्टोऽत्र, तापसः क्रोधसिन्धुरः ॥३६८।। ममज्ज तन्मुखं देव्या, मध्ये कुण्डाऽग्निसत्वरम् । भीता विद्याधरी चाऽपि, क्वाऽप्यगात्सपरिच्छदा ॥३६९।। ततः क्रोधात्परिभ्राम्यंस्तापसस्तत्र जग्मिवान् । यत्राऽऽस्ते कृत्तसर्वाऽङ्गः, शाखाबद्धो हरिः श्वसन् ॥३७०।। क्षणेन तापसः किञ्चिदुपलक्ष्याऽऽह विस्मयात् । अरे ! भवान् हरिश्चन्द्रः, सोऽवोचदोमिति स्फुटम् ॥३७१॥ तमाह तापसः क्रुद्धः, स्वर्णं कुलपतेरदाः ? । हरिः प्राह दिनैः कैश्चित्पूर्णीभविष्यति प्रभो ! ॥३७२॥
सत्यहरिश्चन्द्रकथा ।
१८१