________________
इत्येवं बहुशोऽभ्यर्थ्य, स्वयमुन्मोच्य बन्धनात् । याहीति प्रेषितस्तेन, स जगाम प्रियायुतः || ३४९॥
नूपुरक्वाणकल्पद्रुपुष्पस्रक्सौरभाऽऽदिभिः । ज्ञात्वा विद्याधरीमारादायान्तीं स हरिः क्षणात् ॥३५०|| बद्ध्वा न्यग्रोधशाखायां, स आत्मानमधोमुखम् । गतमृत्युभयस्तस्थौ, स एव किल नाऽपरः ||३५१ || [युग्मम्] ततो विद्याधरी व्योम्नोऽवतताराऽऽर्द्रचीवरा । अग्निकुण्डत्रये वह्निमुज्ज्वालं समचीकरत् ॥३५२॥
सज्जीकृत्य च पूजादि, विद्याधर्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व, किं लक्षणधरो नरः ? || ३५३॥
चित्राङ्गद उपसृत्य, हरिश्चन्द्राऽङ्गलक्षणम् । वीक्ष्योचे देवि ! मोदस्व, येनाऽयं चक्रिलक्षणः || ३५४ ||
विद्याधरी समुत्थायाऽऽनर्च सर्वाऽङ्गमप्यमुम् । ऊचे च स्मर किञ्चित्त्वं देवं यत्राऽसि भक्तिमान् ॥३५५॥ भवेश्च सात्त्विको येन, विद्या सिद्ध्यति मेऽधुना । यत्त्वन्मांसैर्हुतैः : सा स्यात्, प्रीता च वरदा च भोः ! || ३५६ ॥ हरिश्चन्द्रस्ततोऽवादीदात्मैव देवता स्मृता । स्मृतेन येन सत्त्वं स्यादीदृक्कार्यसमर्थकम् ॥३५७॥ ततस्त्वं मा विलम्बस्व, होमः स्याद्बहुविघ्नभूः । स्वेनैवोत्कृत्य मांसं स्वं, यच्छाम्येष गृहाण तत् ॥ ३५८|| साऽऽहाऽभूदेव मन्त्रस्य, सिद्धिर्येन त्वमुत्तम ! | मत्तोऽप्युत्साहवानीदृक्, समवायो हि पुण्यतः || ३५९।।
ततः प्रवृत्ता कुण्डेषु ज्वलज्ज्वालाऽनलेषु सा । हरिश्चन्द्राऽर्पितं मांसं प्रक्षेतुं मन्त्रपूर्वकम् || ३६० ||
१८०
4~
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।