________________
परन्त्वन्यभवस्नेहाऽनुबन्धाद्वा तथोत्तमात् । उपकारपरत्वाद्वा, पृच्छते कथयामि ते ||३३७|| अहं काशीपतेश्चन्द्रशेखरस्याऽऽदिमः सुतः । विद्याधर्याऽस्मि पल्यङ्कादानीतोऽत्र प्रियायुतः ||३३८॥ किमर्थमिति तेनोक्ते, नरः प्राहाऽत्र सम्प्रति । मन्मांसेन महाहोमं, विद्याधरी करिष्यति ॥ ३३९॥
क्व गता साऽधुना विद्याधरीति हरिणोदिते । स्नातुं गङ्गानदीं व्योम्ना, जगामेति जगौ स हि ॥३४०|| ततो दध्यौ हरिर्हर्षाद्गत्वरैश्चेन्ममाऽङ्गकैः । विद्याधर्या भवेत्सिद्धिर्जीवितं चाऽस्य चारु तत् ॥३४१॥ तमुवाच हरिः स्नेहात्, प्रार्थये त्वां किमप्यहो ! | स प्राहाऽवस्थापतितं, किं त्वं प्रार्थयसेऽत्र माम् ॥३४२॥
हरिः प्राह दातुमलं, यत्प्रार्थ्यसे तदेव हि । ततः स प्राह याचस्व, यदभीष्टं नरोत्तम ! ॥३४३॥
हरिः प्राह प्रयाहि त्वं, स्वं राज्यं स्वीकुरु क्षणात् । यत्कार्यं तत्करिष्यामि, विद्याधर्याः स्ववर्ष्मणा || ३४४ ||
पुरुष: प्राह किं ब्रूषेऽनात्मनीनमिदं खलु । मूर्खः कश्च स यः स्वार्थे, परप्राणान् व्ययिष्यति ? ॥ ३४५॥ तद्याहि त्वमतः स्थानाद्विद्याधर्येति सम्प्रति । तेनेत्युक्तो हरिब्रूते, भूतलन्यस्तमस्तकः ॥ ३४६॥
मा मा मे प्रार्थनां व्यर्थां, कुरुष्व पुरुषोत्तम ! । स्वेनाऽप्यहं हि भो ! कष्टान्मर्तुकामोऽस्मि तद्यदि ॥३४७॥
त्वादृशस्योपकृत्याऽथ, म्रिये स्यां सफलस्तदा उपकारः परो धर्म, इत्याम्नासिषुरागमाः ||३४८॥
सत्यहरिश्चन्द्रकथा ।
१७९