________________
क्वचित्तुन्दपरिमृजनिद्रायमाणकुक्कुरम् । क्वचिद्योगीन्द्रसंसिद्ध्यत्साध्यविद्यावरस्वरम् ॥३२५।। क्वचित्कापालिकैर्गृह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपूरितनासिकम् ॥३२६ ॥
उपर्युपरिपर्यस्तमुण्डखण्डस्खलज्जनम् ।
इतस्ततः श्मशानं स, पश्यन् शुश्राव दुर्ध्वनिम् ॥३२७|| [ पञ्चभिः कुलकम्]
अहो ! आर्त्तध्वनिः सैष, मृतपत्याः स्त्रियः खलु । रुदन्तीं वारयाम्येनामित्यगात्तत्पुरो हरिः ॥ ३२८ ॥ उवाच च शुभे ! किं ते, कारणं परिदेवने ? | साह पश्याऽग्रतो गत्वा, न्यग्रोघे कारणं यतः ॥ ३२९॥ हरिर्गत्वा ततोऽपश्यत्पुमांसं पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं, वटशाखानियन्त्रितम् ॥३३०॥ अन्तर्मनः स दध्यौ च, दत्ता भूर्मुनये मया । मुनिकन्याधनोपाये, विक्रीतौ दयितासुतौ ॥३३१ ॥
जीवितस्याऽस्य निर्विण्णः स्वयमेव पुराऽस्म्यहम् ।
कृत्वा पराऽर्थं तद्गच्छेच्चेत् किं नाऽऽसं फलं मया ? ||३३२||
"
इति ध्यात्वा हरिः प्रोचे, तमुद्बद्धं नरं मृदु ।
कोऽसि त्वं भोः !? कथं चेयमवस्था ते सुदुस्सहा ? ||३३३||
जानन्नस्मि न शक्योऽयमुद्बद्धेन प्रभाषितुम् । परं त्वदाकृतिः पुण्या, प्रयुङ्क्ते प्रष्टुमत्र माम् ||३३४॥ तदाऽऽख्याहि न शक्नोमि द्रष्टुं ते दुस्सहां दशाम् । इति तत्प्रणयं दृष्ट्वा, प्रोवाचोद्बद्धपूरुषः ॥ ३३५॥ नाऽहमेतां दशां दीनां, निवेदयामि कस्यचित् । यच्छ्रोता वेत्ति यन्मत्तः, किं परित्राणमीहते ? ||३३६||
१७८
~+
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।