________________
आश्चर्यमिदमाश्चर्यमित्यूचुरुच्चकैर्जनाः ।
सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् ||३१३॥ मन्त्र्यूचे नाथ ! मन्येऽहं, मान्त्रिकस्य विजृम्भितम् । तत्केनाऽप्यपदेशेन, मान्त्रिको द्राग् विसृज्यताम् ||३१४॥ तथेमां रासभादाशु, समुत्तारय सम्प्रति । इत्युक्तो मन्त्रिणा भूपः, सविस्मयमदोऽवदत् ॥३१५॥ किं कुर्मः ? किमु जानीमः ?, कस्येदं कैतवं महत् ? । सन्दिग्धाऽर्थे किलैतस्मिन् विचारं कुर्महे च किम् ? ॥३१६ ॥
ܙ
इत्यन्तस्तापकोपाभ्यां, संश्लिष्टो नृपतिः स्वयम् । व्यसृजन्मान्त्रिकं कीरं, पञ्जरे तु न्यधापयत् ॥३१७॥
उदतारयदेनां च, रासभाद्वनितां ततः ।
इति सर्वं विसृज्याऽथ, नृपः पल्यङ्कमासदत् ॥३१८|| हरिश्चन्द्रोऽपि सूर्यास्ते, चण्डालस्य नियोगत: । व्रजन् स्मशानं दध्यौ स, कीदृग्दुर्दैवनाटकम् ? ॥३१९॥ देव्याः कर्मकरित्वेन, जाताया विप्रसद्मनि । राक्षसीवचनं दैवदत्तं न्यवर्तयच्छुकः ॥३२०|| दैवमेव ततो मन्ये, बलवान् नाऽपरः पुमान् । यत्तेन विहिता ह्यापत्, तेनैव हि निवर्त्यते ॥ ३२१॥ सूचीभेद्येऽपि हि ध्वान्ते, प्रविशन् गतभीर्हरिः ददर्श भीषणाऽऽकारं, श्मशानं निशि सर्वतः ॥ ३२२ ॥
क्वचित्फेरण्डफेत्कारं, क्वचिद्राक्षसडम्बरम् । क्वचिद्विभीषिकोद्योतं, क्वचित्कौशिकवासितम् ॥ ३२३॥
क्वचित्प्रेतपरित्रस्तशबसंस्कारकृज्जनम् । क्वचिच्च डाकिनीमुक्त प्रोद्यत्किलिकिलाऽऽरवम् ॥३२४||
सत्यहरिश्चन्द्रकथा ।
१७७