SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ राज्ञा पृष्टाऽङ्गना प्राह, न सुताराऽस्म्यहं खलु । किन्तु द्विजन्मनो वज्रहृदयस्याऽस्मि दास्यहम् ॥३०१॥ अरे ! विप्लावयस्यस्मानित्युक्तो भूभुजा शुकः । किं स्वं प्रकाशयेदेष, त्वदग्रेऽत्रेति सोऽब्रवीत् ॥३०२।। मन्त्री प्राहाऽऽकृतावस्यां, राक्षसीकर्म किं भवेत् ? । ततो विचार्य कर्तव्यं, स्वामिना यद्यथोचितम् ॥३०३।। पृष्टश्च श्वपचो राजा, प्राहाऽयं मम कर्मकृत् । इति निश्चित्य राजाऽमुं, रासभाऽऽनयनेऽब्रवीत् ॥३०४॥ हरिं सोऽपि समादिक्षदानैषीत्सोऽपि रासभम् । शक्तोऽपीष्टोऽपि किं कुर्यात् ? परतन्त्रः पुमान् खलु ॥३०५।। विचार्य कार्यमाचर्यमिति मन्त्रिशुकाऽऽदिभिः । वार्यमाणोऽपि राजा तामारोपयच्च रासभम् ॥३०६॥ अहो ! अकृत्यमकृत्यमित्याक्रन्दन् शुकोऽवदत् । राजन् ! विज्ञापनामेकां, शृणु नीत्यनुयायिनीम् ॥३०७।। राजाऽऽह ब्रूहि रे ! स्वैरं, कीरः प्रोवाच यद्यसौ । सुतारा राक्षसी स्यात्तद्विशाम्यग्नि पुरस्तव ॥३०८।। सदैन्यं प्राह सर्वोऽपि, सभालोकः शुकस्य गीः । अस्तु प्रमाणमामेति, राजाऽप्यूचेऽनुरोधतः ॥३०९।। सोत्साहं प्राह कीरोऽपि, मन्त्रिन ! कारय तच्चिताम् । तथा तेन कृते कीरः, स्नात्वाऽगमच्चितां प्रति ॥३१०॥ ततो दिग्नायकानाह, यद्येषा राक्षसाऽन्वया । भवेन्नृपसुता तन्मां, प्रदहत्वाशु हव्यवाट् ॥३११।। इत्युक्त्वा पश्यतामेव, तेषां गतभयः शुकः । झम्पामादाच्च विध्मातोऽग्निश्चाऽस्थादक्षतः खगः ॥३१२।। १७६ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy