SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अथाऽऽह स्वपचं मन्त्री, कुर्वन्नाच्छादनामिमाम् । हरिं सोऽपि समादिक्षत्, कृत्वा सोऽपि तथैव ताम् ॥२९०।। प्रत्यभिज्ञासीकि नाम, सुतारा देव्यसौ ? हहा !! । किमेतेन हि देवेन, हन्तव्या वयमेव हा !? ॥२९१॥ नाऽस्मिन् कर्मणि देव्येषा, कारणं स्यात्कथञ्चन । किन्तु कोऽपि मद्दुष्कर्मप्रेरितः कुरुते ह्यदः ॥२९२।। प्रविश्याऽग्नि ततो देव्या, दोषमाशु हराम्यहम् । अथवाऽरिसभायां मे, नाऽऽत्मा योग्यः प्रकाशितुम् ॥२९३।। मुनिभ्यः पृथिवी दत्ता, विक्रीता ससुता प्रिया । यत्करिष्यति दैवं तद्धरिश्चन्द्रः सहिष्यति ॥२९४॥ दृष्ट्वा तां बाह्यनेपथ्यैरदूषितवपुलताम् । मन्त्रिणे पृथिवीनाथः, स्वं वितर्कं न्यवेदयत् ॥२९५॥ वक्त्रं चन्द्रमपाकरोति च दृशावम्भोजलक्ष्मी वचः,पीयूषं कचसञ्चयोऽप्यलिरुचं वर्णः सुवर्णं खलु । अङ्गैर्मे विजितं जगत्पृथगतः शृङ्गारवर्मश्रम, कृत्वा कं विजयेदतो लवणिमैवाऽस्याः प्रियं मण्डणम् ॥२९६॥ शुकोऽप्यथोपलक्ष्यैनां, ननाम नतमस्तकः । उसीनरसुते ! देवि ! सुतारे ! स्वस्ति ते सति !? ॥२९७।। राजाऽऽह किं मुहुः कीर !, प्रलपस्येवमुच्चकैः ? । क्व सात्रोसीनरसुता ?, किं त्वं कीरोऽसि मद्यपः ? ॥२९८॥ सावष्टम्भं शुकः प्राह, हरिश्चन्द्रोऽयमस्य तु । पत्नीयमित्ययमर्थोऽन्यथा स्याद्ब्रह्मणाऽपि न ॥२९९।। राज्ञा पृष्टो हरिबूंते, हरिश्चन्द्रो भवामि न । किन्त्वहं स्वपचस्याऽस्य, द्रव्यक्रीतोऽस्मि कर्मकृत् ॥३००। सत्यहरिश्चन्द्रकथा । १७५
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy