SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ मण्डले मन्त्रशक्त्याऽथ, सनिर्घातं पपात सा । सर्वेऽप्यबिभयुस्तस्या, मार्जार्या इव मूषकाः ॥२७९।। सविस्मयं नृपः प्राह, मन्त्रोत्कर्षाऽवधिययम् । य एनां राक्षसी मन्त्रिन्नाऽऽनैषीत् पश्यतां हि नः ॥२८०॥ मान्त्रिकः प्राह कर्त्तव्यमस्माभिः कृतमेव हि । यदुचितं कुरु त्वं तन्निग्रहे त्वमसि प्रभुः ॥२८१।। साक्षेपमादिशद्राजा, मन्त्रिन् ! श्वपचमाह्वय । कलहंसं तमाह्वातुमादिक्षत्सचिवस्ततः ॥२८२॥ कलहंसोऽपि तत्रैव, विमुच्य शुकपञ्जरम् । जगामाऽथ नृपोऽवादीन्मन्त्रिन् ! किमस्ति पञ्जरे ? ॥२८३॥ मन्त्री प्राह महाराज !, शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानं, तेनेत्युक्ते शुकोऽपठत् ॥२८४॥ माप ! त्वच्छरपातितानपि समित्क्षेत्रेऽसृजा पङ्किले, पद्भारै रणकाङ्क्षिणः पुनरिभाः शत्रूनधो रोपयन् । स्वर्गे तत्क्षणमुद्गतान् दितिसुतानिन्द्रेण युद्धोद्धतान्, जित्वैरावणमप्यतुच्छसमरक्रीडारसं ते व्यधुः ॥२८५।। मान्त्रिकः प्राह भो राजन् !, राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत्कोऽयं, विलम्बोऽस्या विनिग्रहे ? ॥२८६॥ ततश्चाऽऽगाच्च चाण्डालो, हरिश्चन्द्रेण संयुतः । हरिश्चन्द्रं शुको दृष्ट्वाऽभूदुत्फुल्लाऽक्षिमानसः ॥२८७॥ प्राह च स्वस्ति ते नाथ !, भरताऽन्वयभूपते ! । हरिश्चन्द्र ! नमद्भूपमौलिरत्नाऽङ्कितक्रम ! ॥२८८।। सरोषं प्राह राजाऽपि, किमबद्धं प्रभाषसे ? । क्व साकेतपतियत्र ?, कीर ! त्वं विह्वलोऽसि किम् ? ॥२८९॥ १७४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy