________________
कलहंस ! क्व कीरोऽयं, लब्धस्त्वयेति मन्त्रिणा । पृष्टे स प्राह चम्पाया, वने ह्येनमवाप्नुवम् ॥२५६॥ चन्द्रशेखरराजाय, सदाप्रियविपश्चिते । सर्वशास्त्रनदीष्णत्वादिहाऽऽनैषं शुकोत्तमम् ॥२५७॥ इति तद्वचनं शृण्वंस्तेनैव सह मन्त्रिराट् । ययावुपनृपं नत्वा, यथास्थानमुपाविशत् ॥२५८॥ सखेदं प्राह भूपालो, मन्त्रिन् ! पश्य पुरीजनः । सङ्कोचिताऽऽयुर्दैवेन, प्रयात्यस्तं प्रतिक्षणम् ॥२५९॥ न वयं दुर्नया नाऽपि, श्लथधर्मः पुरीजनः । नृणामकालमृत्युश्च, तदन्वेषय कारणम् ? ॥ २६०॥ ततश्च सुम्भली काचित्, पुत्रीमरणविह्वला । उरस्ताडसनिःश्वासा, राजानं प्राह सा क्रुधा ॥२६१॥
सदैवाऽन्यायकारी त्वं, सदा पीडयसि प्रजाः । सदाऽपि पापनिष्ठोऽसि, तेनाऽयं म्रियते जनः ॥२६२॥
मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी । प्रक्रीड्य सुखशय्यायां, सुप्ताऽकस्मान्मृताऽस्ति हा ! ॥२६३॥
अहो ! कर्कशता ह्यस्या, अहो ! निर्लज्जता गिराम् । इति ध्यायन् नृपेणोक्तो, मन्त्री किं क्रियतामिति ? ॥ २६४॥ मन्त्र्याह भूपमत्राऽर्थे, प्रगल्भन्ते हि मान्त्रिका: राजा प्राहाऽऽगतोऽस्तीहोज्जयिन्या मान्त्रिको महान् ॥२६५॥ तत आकार्यतामेष, इत्युक्ते मन्त्रिणा नृपः । आजूहवत्तदैवैनं, सोऽप्यागत्य समाविशत् ॥२६६॥ राजाऽऽह मान्त्रिकं किं नः पुर्यां मारिविजृम्भितम् ? । हठान्नयति पूर्लोके यमसद्मनि दूतवत् ॥२६७॥
१७२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।