________________
करिष्ये कर्म तेऽवश्यं, राज्ञेत्युक्तेऽथ सोऽवदत् । किं किं कर्ताऽसि मे कर्म ?, राजाऽऽहाऽऽदिशसीह यत् ॥२४४।। रक्षितव्यं स्मशानं चाऽऽदातव्यं मृतकाऽम्बरम् । अर्धदग्धानि काष्ठानि, ग्राह्याणि च चिताचयात् ॥२४५।। यत्तत्रोत्पद्यते तस्याऽर्धं हि गृह्णाति भूपतिः । अन्यस्याऽर्धस्य भागौ द्वौ, ममैकस्ते तथा नृप ! ॥२४६॥ यदादिशामि कर्तव्यं, तच्च कार्यं त्वया सदा । गङ्गासव्यस्मशानेशः, कालदण्डाऽभिधोऽस्म्यहम् ॥२४७॥ [युग्मम्] इति श्रुत्वा नृपः प्राह, तं त्वदाज्ञाकृदस्म्यहम् । यदत्र मां प्रति स्यात्तद्दीयतां मुनये खलु ॥२४८॥ अपवार्य मुनिः प्रोचे, नमस्ते सत्त्वशालिने । नमस्ते सत्यसन्धाय नमस्ते धैर्यसद्मने ॥२४९॥ कालदण्डोऽपि तद्वाचं, प्रपद्य मुनये ततः । हरिश्चन्द्रेण सार्धं च, ययौ स्मशानमात्मनः ॥२५०॥ इतश्च पुर्यामेतस्यामकस्मादपि देहिनाम् । वपुर्वाप्याजीविताऽम्भो मृत्युर्जग्राह रुग्गुणैः ॥२५१॥ ततश्च परितः प्रोद्यदाक्रन्दध्वनिभिर्जितः । निलीयाऽस्थादिव क्वाऽपि, नगरे मङ्गलध्वनिः ॥२५२॥ मृत्योर्भीता जना रक्षा, विदधत्यात्मनो यथा । प्रेरितस्तु तथा मृत्युस्तान् गृह्णाति सहस्रशः ॥२५३।। श्रुत्वाऽथ दुःसहं लोकाऽऽक्रन्दं मरणजं पुरे । आह्वत्सत्यवसुं भूपो, मन्त्रिणं चन्द्रशेखरः ॥२५४॥ राजाऽऽदेशात्समायान्तं, सचिवं कोऽपि पूरुषः । अन्तरामिलितः कीरपञ्जराऽग्रकरोऽनमत ॥२५५।।
सत्यहरिश्चन्द्रकथा ।
१७१