SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सपदि विपदि दैवान्मज्जने सज्जने धीः, पुनरभिगमसज्जाऽतीव लज्जाकरो मे ॥२०९।। अपि च- विना कान्तं स कोऽप्यस्ति, यः स्त्रीणां प्रीणयेन्मनः । सुखाऽऽलापेष्वप्यलिषु, श्रीः काऽब्जिन्या विना रविम् ? ॥२१०॥ ततश्च ब्राह्मणः कोऽपि, वीक्ष्यमाण इतस्ततः । भृतिकां काञ्चिदायासीदुपभूपं स उन्मुखः ॥२११॥ दृष्ट्वा च भूपमापादमस्तकं चक्रिलक्षणम् । ऊचे कस्त्वं ? कथं देहं, श्रीगेहं भृतकीयसि ? ॥२१२।। [युग्मम्] शुचाऽऽत्तमौनं भूपालमालप्याऽऽगच्छदग्रतः । दृष्ट्वा सुतारां सास्रोऽभून्निनन्द दैवमुच्चकैः ॥२१३॥ एनां स्त्रियं ननु विधाय रिपो ! विधातस्त्वं मूढ ! किं नयसि दास्यविडम्बना हा!। दृष्ट्वाऽपि यद्वपुषि रूपगुणत्रपादीनत्यद्भुतान्निजगतैस्त्रपते रतिस्तैः ॥२१४॥ सुतारायाः पुरः पुण्यं, रोहिताश्वं सुलक्षणम् । दर्भाऽङ्कशिरसं प्रेक्ष्य, धिक् शास्त्रमित्युवाच सः ॥२१५॥ शास्त्रं सुलक्षणान्याह, यानि कानिचिदादरात् । तान्याधिक्यादमीषां यत्सत्याऽवस्था च कीदृशी ? ॥२१६।। सानुभूतं नृपः प्राह, मास्मैवं हि द्विज ! ब्रवीः । शास्त्रं हि न मृषा भाषि, किन्तु मे कर्मवैभवम् ।।२१७।। जन्मन्येव कृतः पूर्वे, ददतामदतां स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते ।।२१८।। तद्वशादीदृशी चेन्नोऽवस्थैषा तच्छुचाऽत्र किम् ? । सर्वं विषहमाणो हि, कर्मभिर्मुच्यते जनः ॥२१९॥ किमस्या मूल्यमित्युक्ते, ब्राह्मणेन मुहुर्मुहुः ? । कथञ्चिद् रुद्धबाष्पोऽथ, राजाऽऽख्यदुचितं हि यत् ॥२२०॥ १६८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy