________________
ततः स्वर्णसहस्राणि, पञ्चाऽस्या मूल्यमस्तु भोः !। वदतीति द्विजे राजा, लज्जयाऽधोमुखोऽभवत् ।।२२१॥ अनिषिद्धमनुमतमिति तस्मिस्ततोऽञ्चले । स्वर्णं बध्नाति राजाऽऽह, मोक्षोऽस्या द्विगुणेन भोः ! ॥२२२॥ धिग् जन्म धिक् प्रचुरजीवितमद्भुतश्रि, धिग् धिग् महत्त्वपदमन्यवशस्य पुंसः । प्राप्याऽपि यो मनुजतां स्फुटशर्महेतोः, स्वेच्छारसाद्विघटयत्यपि जीवितं स्वम् ॥२२३।। इति ध्यायन् द्विजः प्राह, सुतारामग्रतो भव । वलितायां सुतारायां, रोहिताऽश्वोऽञ्चलेऽलगत् ।।२२४॥ रुदती तं सुताराऽऽह तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकं तुभ्यं, यान्त्यस्मि वत्स ! तिष्ठ तत् ॥२२५।। अमुञ्चत्यञ्चले तस्मिन्, मुहुर्मात्राऽपि बोधिते । भृतिके किं विलम्बोऽयमिति कुद्धो द्विजोऽवदत् ।।२२६।। सुतारां सभयं यान्ती, यावन्मुञ्चति नाऽर्भकः । तावद्विजेन भूमौ स, पादेनाऽऽहत्य पातितः ॥२२७।। राजा सास्त्रं ततो दध्यौ, धिगापदमिमां मम । इन्द्रस्याऽप्यङ्कलाल्योऽयं, पदा विप्रेण हन्यते ॥२२८।। पतितं विपदि पुमांसं परितो वृण्वन्ति परिभवसहस्राः । श्वभिरभिदष्टो निहतो व्याधैः श्रितवागुरः क्रोडः ॥२२९।। ततः प्रोचे द्विजं राजा, न तिष्ठेन्मातरं विना । शिशुः किमपि ते कर्म, कर्ता क्रीणीह्यमुं ततः ॥२३०॥ मुधिकयाऽपि गृह्णामि, नैनमेतद्विजो ब्रुवन् । राज्ञोक्तः स्वर्णसहस्रं, दत्त्वाऽथादाय तौ ययौ ॥२३१॥
सत्यहरिश्चन्द्रकथा ।
१६९