________________
रोहिताश्वोऽब्रवीत्तात ! मा विक्रेष्टाऽस्तु मां स्फुटम् । मातर्वारय तातं मां, विक्रीणानं पुरे धनैः ॥१९८॥ रुदत्याह सुतारा त्वं, चक्रवर्ती भविष्यसि ? । मा रोदीस्तिष्ठ वत्स ! त्वां, विक्रेष्यते न कश्चन ॥१९९।। रोहिताश्वस्य वाचाऽथ, मनोमर्माविधा रुदन् । पुरीभृतकवीथ्यां स, तस्थौ श्रेण्या नृपस्ततः ॥२००॥ किञ्चिद्विमृश्य च क्षिप्रं, तृणान्यानीय भूपतिः । न्यस्य मूर्ध्नि सुतारोक्तः, प्राहैषा भृतकस्थितिः ॥२०१॥ रोहिताश्वं धुनानं स्वं, शिरः प्राह ततो नृपः । विधेहि मद्वचो वत्स !, तुभ्यं दास्यामि हस्तिनम् ॥२०२॥ दध्यौ सुतारा धिग् दैवं, भवे भवशतान्यथ । दत्ते यन्नः क्व सा लक्ष्मीः ?, क्वैषा विक्रयवाच्यता ? ॥२०३।। राजाऽप्यचिन्तयद्दत्ता, न तथा कीर्तये मही । यथा ह्यकीर्तये पत्नीपुत्रयोरिह विक्रयः ॥२०४।। विसृजामि सुतारां तत्सपुत्रां पितृवेश्मनि । यद्भाव्यं तदहं सोढा, ध्यात्वेत्यूचे स तां नृपः ॥२०५॥ देवि ! याहि पितृकुलं, पुत्रमादाय सम्प्रति । यथा तथाऽप्यहं स्वर्णं, दास्यामि मुनये खलु ॥२०६॥ साक्षेपं प्राह देवी तु, किं नु स्यात् प्रलयेऽप्यदः ? । विमुच्य त्वामहं यान्ती, सत्यं जाताऽस्मि दुर्जना ।।२०७।। यतः- सम्पदि कस्कः श्रयति न विपदि तु मुञ्चन्ति गतघृणाः पुरुषम् । स्वं दर्शयत्यगस्त्यः पश्य भुवे फलितसस्यायै ।।२०८।। किञ्च- वरमरिवरिवस्या पावके पावके वा, पतनमतनुभिक्षाभाजनं भोजनं वा ।
सत्यहरिश्चन्द्रकथा ।
१६७