________________
स्वयमलम्पटत्वेन, सात्त्विकाऽऽत्मजभावतः । बुभुक्षितोऽपि बालोऽपि, रोहिताश्वोऽग्रहीन्न तम् ॥ १८७॥ नाऽनुकम्पप्रदानं ते, गृह्णीमो वयमध्वगे ! । प्रत्याख्यातेति राज्ञा सा, ययौ क्वाऽपि क्षणादपि ॥१८८॥ देवि ! चेद्गतखेदाऽसि, तदोत्तिष्ठ पुरीं प्रति । याम इत्थं नृपेणोक्ते, सुताराऽऽह सदद्गदम् ॥ १८९॥ निजराज्यपरिभ्रंशलज्जासज्जमनाः कथम् । प्रवेक्ष्यत्यार्यपुत्रोऽत्र, वैरिपुर्यां स्थितद्विषि ? ॥१९०॥ साऽवष्टम्भं नृपः प्राह, का लज्जा सत्त्वशालिनाम् ? | पूर्णीकर्तुं निजां सन्धामापदो यदि तन्महः ॥१९१॥ सुताराऽऽह भवेद्दैवात्, सा काऽप्यापदतर्किता । यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥१९२॥ राजा प्रोवाच देवि ! त्वं, न विचार्य प्रभाषसे । लक्ष्म्या बलेन वा हीनः, स्यां चेत्ततः पराभवः ॥१९३॥
इदं पुरा कृतं कर्म, प्रभवत्केन वार्य्यते । तत्प्रभावाद्दशाऽस्माकं, यच्चैषा तद्विषां किमु ? ॥१९४॥
यतः- किं लब्धेन यतो जिहीर्षति ? किमु त्यक्तोन यद्दित्सते ?, किं तुष्टेन यतो रुरोषयिषति ? स्नेहाऽनुकूलेन किम् ? ।
यद्दिद्वेषयिषत्यतस्तनुभृतामिष्टं बलादन्यथा,
कुर्वाणं जयतीह कर्म न परस्तत्केन कीदृग्भवेत् ? ॥१९५॥ ततः प्रतिपुरीं राजा, प्रतस्थे प्रियया सह । तामाह स्यात्कुतः स्वर्णं, यदाऽऽसन्नोऽवधिर्मुनेः ॥१९६॥ मां विक्रीयाऽऽर्यपुत्राऽस्मै, तद्यच्छेति तयोदिते । राजाऽऽह विक्रयश्चेत्स्यात्, तत्सर्वेषां न कस्यचित् ॥१९७॥
१६६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।