________________
इत्यूचाना पिधायाऽऽस्यं, रुरोदोच्चैर्नृपप्रिया । रोहिताश्वस्ततोऽरोदीद्भूत्वा साऽश्रु नृपोऽवदत् ॥१७५।। मा रोदीर्भव धीरा त्वं, स्वीकुर्याः सात्त्विकव्रतम् । मा मा शोकपिशाचोऽस्मान् गृह्णातु परितो भ्रमन् ॥१७६॥ रोहिताश्वस्ततः प्राह पितर्बुभुक्षितोऽस्म्यहम् । राजाऽदिक्षदरे ! क्षिप्रं, देहि वत्साय मोदकम् ॥१७७॥ न कोऽपि यावदायाति, विलक्षो नृपतिस्ततः । किमिदमिति देव्योक्तः, पूर्वोऽभ्यासोऽब्रवीदिति ॥१७८॥ रोहिताश्वः पुनः प्रोचे, मातर्बुभुक्षितोऽस्म्यहम् । रुदती तारतारं सा, सुतारा पुत्रमब्रवीत् ॥ १७९॥ चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्ष्मणः । भरताऽन्वयजातस्याऽवस्था केयं तवाऽऽगता ? ॥१८०॥ अथ दध्यौ नृपः कीदृग्, राज्यस्य तादृशः फलम् ? । रुदतो यत्तनूजस्य, प्रातराशेऽ ऽप्यशक्तता ॥ १८१ ॥ तावद्विनोदयाम्येनं, कौतुकप्रेक्षणाऽऽदिभिः । पश्येतः पुत्र ! गङ्गायां, मिथः क्रीडन्ति पक्षिणः ॥ १८२ ॥ विप्रतारयति क्ष्मापे, रोहिताश्वं कुतूहलैः । आगादकस्मात्काऽप्येका, वृद्धा पाथेयमस्तका ॥१८३॥ पृच्छन्तं नगरीमार्ग, भूपं साऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीदृशी ? ॥१८४॥ कथा नः श्रूयमाणाऽपि, कातराणां भयाऽऽवहा । तन्मा पृच्छ पुरो गच्छ, राज्ञेत्युक्ता चचाल सा ॥१८५॥
मोदकं देहि मे मातः !, सुतारामिति भाषिणि । रोहिताश्वे ततो वृद्धा, निवृत्य तमढौकयत् ॥१८६॥
सत्यहरिश्चन्द्रकथा |
१६५