________________
ततश्च सचिवो भूत्वा, शुकोऽगान्नभसा क्वचित् । राजा तु सभयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥१६४॥ निवार्य रुदतो भूपः पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान्, प्रतस्थे सप्रियासुतः || १६५॥ अनुरागाल्लुठद्बाष्पमनुयान्तं पुरीजनम् । कष्टान्निवर्तयामास, राजा स्नेहगिरा मृदु ॥१६६॥ चचाल सात्त्विकः पुत्रकलत्राभ्यां समन्वितः । कथं कथमपि प्रान्तमध्वनः प्राप भूपतिः || १६७॥
दूरमार्गपरिश्रान्ता, सुतारा नृपमब्रवीत् । कियदद्याऽपि गन्तव्यं ?, खिन्नान्यङ्गानि नाथ ! मे ? ॥१६८॥ उवाच नृपतिर्देवि !, मा ताम्य किं न पश्यसि ? । अभ्रंलिहगृहाऽकीर्णामाराद्वाराणसीं पुरीम् ॥१६९ ॥ अतीव यदि खिन्नाऽसि, वहन्ती पुत्रमात्मना । अनुगङ्गातटं रूढं, तदा चम्पकमाश्रयः ||१७०|| देव्या तथा कृते राजा, स्वेनैव समवाहयत् । यथासुखं तदङ्गानि, ततो देवी व्यचिन्तयत् ॥१७१॥ यदा हि सम्पदः पुंसां, तदा सर्वोऽनुगच्छति । इदानीमार्यपुत्रं यन्न कोऽप्यागादनुव्रजन् ॥१७२॥ यतः - स्तुत्यः स्तवीति सुखदं नमते नमस्यो, मान्योऽपि मानयति कामयतेऽपि काम्यः । ब्रूमः किमन्यदनुगच्छति चाऽनुगम्यो, यस्यां प्रसन्नदृशि नेच्छति कः श्रियं ताम् ॥ १७३॥
स्वप्नदृश्या ततोऽभून्नः, सा सम्पद्यां विनाऽधुना । पद्भ्यां यानं क्षितौ शय्या, कदाहारो मनः क्लमः ॥ १७४॥
१६४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।