SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ विमृश्याऽऽह नृपो देवीं, गच्छाऽन्तःपुरमात्मनः । रोहिताऽश्वशिशुर्यस्मान्न सोढा खेदमध्वनः || १५२ ॥ साऽवष्टम्भं सुताराऽऽह, यद्भाव्यं तद्भवत्विह । आगमिष्याम्यहं सार्धं, त्वया छायेव निश्चितम् ॥१५३॥ पतिव्रते ! चलिताऽसि क्वेत्युक्ते मुनिनाऽऽह सा । प्रवासे ह्यार्यपुत्रेण, येन पत्यनुगाः स्त्रियः ॥ १५४॥ ममाऽऽयत्तां हरिश्चन्द्रस्त्वां नेष्यतीदमद्भुतम् । इत्युक्ते मुनिना प्राह, वसुभूतिः कुधा ज्वलन् ॥१५५॥ अये ! तापस ! नाऽसि त्वं, विज्ञो लोकस्थितेः खलु । विद्धीदानीं स्त्रियो भर्तृदेवता नाऽपराऽऽत्मिकाः ॥ १५६ ॥ यत्प्राह व्यवहारज्ञस्त्वन्मन्त्री तत्र ते मतम् ? । इत्युक्ते तापसेनाऽऽह, नेति राजाऽपि सर्वदः ॥ १५७॥ त्वं विस्रक्ष्यसि चेद्देवी, तदाऽऽयातु मया सह । देव्याह विसृज त्वं मां, मुने ! स प्राह याहि तत् ॥ १५८॥ किन्तु मुक्त्वाऽऽभरणानि, यातेति मुनिनोदिते । राजाऽमुञ्चत् सुताराऽऽह, किञ्चिन्मेऽस्तु कुलोचितम् ॥१५९॥ मुनिराह हरिश्चन्द्रे, सत्यन्यत् किं कुलोचितम् ? | इति वाचि मुनौ सास्रा, सुताराप्यमुचत्ततः ॥ १६०॥ मन्त्री प्राह मुनिं कोपादरे रे !!! ब्रह्मराक्षस ! | नृपो विज्ञो ददत्ते क्ष्मां किमु गृह्णन्नितो भवान् ? ॥१६१॥ क्रुधा प्रोचे मुनिर्नाऽयं, कृत्येषु विदुरो नृपः । अहं विज्ञो न चाऽस्म्येष, विज्ञस्त्वं योऽन्तरायकृत् ॥१६२॥ कोपात्स निर्दशन्नोण्ठौ, गृहीत्वोज्झत् पयो भुवि । आह चाऽस्ति तपश्चेन्मे, तदा त्वं द्राक् शुको भव ॥१६३॥ सत्यहरिश्चन्द्रकथा | १६३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy