SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ कर्णेऽथ कथिते राज्ञा, ह्यानीयाऽऽभरणान्यपि । कुन्तलेनाऽर्पितान्येष, राज्ञोऽमूनीत्यपाकरोत् ॥१२८॥ कुन्तलो वसुभूतिश्चाऽऽहतुः कुलपते ! नृपः । यावद्ददाति ते स्वर्णं, तावदावां गृहाण भोः ! ॥१२९॥ मुनिराह त्वया जूर्णमार्जारेण करोमि किम् ? | अल्पेन कुन्तलेनाऽपि, कः स्वर्णं स्वमुपेक्षते ? ॥१३०॥ आदिक्षत् कुन्तलं राजा, देवीभूषणमानय । स ययाचे ततो देवीं, देव्याऽऽ हैष्याम्यहं स्वयम् ॥१३१॥ तेनाऽऽदिश्यमानमार्गा, रोहिताऽश्वेन संयुता । आययौ सदसि क्षिप्रं, सुतारा साऽवगुण्ठना ॥१३२॥ प्रणम्यैषा मुनिं प्राह, गृहाणाऽऽभरणं मम | मुनिराह पितुर्भर्त्तुर्वैतानि ? साऽब्रवीत्ततः ॥ १३३॥ आर्यपुत्रेण मे योग्यं, नेपथ्यमिदमार्प्यत । मुनिराह ततः केयं, दक्षता ते पतिव्रते !? ॥ १३४॥ ऊचेऽ ऽङ्गारमुखः किं न जानासि त्वमियं किल । कैतवाऽम्बुधिचन्द्रस्य, हरिश्चन्द्रस्य गेहिनी ? ॥१३५॥ या प्रदत्ते त्वदीयानि तवैवेत्युदितेऽमुना । आबद्धभ्रकुटीभङ्गः, कुन्तलस्तु ततोऽवदत् ॥१३६॥ अरे तापस ! नो वेत्सि, देवीं सतीत्वशालिनीम् । तदेष त्वं न भवसीत्युक्त्वाऽथ सोऽवदन्नृपम् ॥१३७॥ विमृशाऽद्यापि मा मुह्य, किं स्यात्परिग्रहो यतेः ? । वाचश्चेमाः स्युरेते हि, मुनिव्याजेन राक्षसाः ॥ १३८॥ ततः कुलपतिः क्रोधाद्गृहीत्वाऽम्भः कमण्डलोः । शृगालो भवेति भूमौ मुमोचाऽञ्जलिवारि तत् ॥१३९॥ सत्यहरिश्चन्द्रकथा । १६१
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy