________________
विलक्षो नृपतिर्दध्यौ, किं करोमि ? कुतः पुनः । समानयामि तत्स्वर्णं ?, हा धिक् कीदृगुपस्थितम् ? ॥ ११६ ॥
ततः कुलपतिः कोपकम्पमानाऽधरोऽवदत् ।
विलम्बः कोऽयमद्याऽपि ?, राजन् ! विसृज मां ततः ॥११७॥
वसुभूतिर्मुनिं प्राह, विश्वदृश्वा त्वमस्यथ । हरिश्चन्द्रसमः क्वाऽपि दृष्टः किं कोऽपि सात्त्विकः ? ॥ ११८ ॥ सोपहासमुवाचाऽथाऽङ्गारवक्त्रो न मन्त्र्यपि । दृष्टोऽभूत्त्वादृशो नाऽपि, हरिश्चन्द्रसमो नृपः ॥११९॥ नृपं प्रति मुनिः प्रोचे, मायाविन् ! किं वृथोदितै: ? । विहंसि मध्याह्नसन्ध्यां, सत्त्वं सत्यं च ते ह्यदः ॥१२०॥ ऊचेऽङ्गारमुखो राजन्!, किं वाञ्छसि त्वमात्मन: ? । कुलस्य यशसो लोकस्याssकस्मिकं क्षयं क्षणात् ? ॥१२१॥ प्रणम्योचे नृपो भीतस्त्वत्तः किं स्यात्क्षयोऽपि नः ? । उपपूर्वाऽचलं पश्य, ग्रहाणामुदयः खलु ॥१२२॥
निहन्ति पाष्णिना भूपं, मुनिर्ननाम तं नृपः । कोपे क्षान्तौ च तावेव, दृष्टान्तौ स्वस्य नाऽपरः ॥ १२३॥ सरोषमङ्गारमुखो, भूपं प्राह नृपाऽधम ! । विप्लावयसि किं नस्त्वं, मृषाभाषामहोदधे !? ॥१२४॥
आहाऽङ्गारमुखं मन्त्री, विरोधस्ते मिथः कथम् ? । क्वेदृग् तपो ? रुष: क्वेमास्तन्मा ब्रह्म कलङ्कय ? ॥१२५॥ प्राहाऽङ्गारमुखः कोपादस्थापितमहत्तर ! । कोऽसि त्वं रे ! मम ब्रह्मचिन्तायां सचिवाऽधम !? ॥ १२६॥
I
अरे राजन् ! त्वमेनं किमन्तराऽऽलापिनं बटुम् न निवारयसि ? किं नोपनयसि च काञ्चनम् ? ॥१२७॥
१६०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।