________________
कौटिल्योऽप्यवदद्राजन्ननाऽर्थे साक्षिणो वयम् । ओमित्युक्ते नृपेणाऽगात्, स स्वस्थानं मुदं नृपः ॥८०॥ अथ व्यजिज्ञपत् कोऽपि शिष्यो यावदियं मृगी । तिष्ठेद्विपन्ना तावन्न, पाठस्तत्क्रियतां किमु ? ॥८१॥ खेदात् कुलपतिः प्रोचेऽस्याः कारयाऽग्निसंस्कृतिम् । वञ्चनाऽऽह मया सार्धं, तस्याः स्यादग्निसंस्कृतिः ॥८२॥ राजा तां विनयादूचे, ममैकं दुर्नयं सह । अहं तुभ्यं हि दास्यामि, स्वर्णलक्षमसंशयम् ॥८३॥ कष्टादिव तयाऽप्योमेत्युक्ते प्राह मुनिस्ततः । दीयतां तर्हि हेमाऽस्यै, राजाऽऽहाऽऽयात मत्पुरे ॥८४॥ सन्ध्याविधिं विधायाऽऽशु, पश्यैते वयमागताः । इत्याकर्ण्य नृपोऽयोध्यां, यानश्रौषीदिमां गिरम् ॥८५॥
तेजोऽखिलभुजो वह्नेर्मुखे क्षिप्त्वा पदं निजम् । दत्त्वर्षिभ्यो निष्प्रतापोऽस्ताऽद्रिं हा ! याति गोपतिः ॥ ८६ ॥
न मङ्गलमिदं किं वा, नाऽन्यथा भावि भावि च । इति निश्चित्य राजा द्राग्, निजं धाम जगाम सः ॥८७॥ कुन्तलाज्जातवृत्तान्तो, वसुभूतिर्व्यचिन्तयत् । अपर्यालोचितकार्या, राजानः स्वोपघातकाः ॥८८॥ ददता वसुधां तस्मै, तापसाय दुरात्मने । देशाद्देशे प्रवासो हा !, स्वीकृतो भूभुजा स्वयम् ॥८९॥ यदन्येनाऽदृष्टचरो, वराहं कोऽप्यवेदयत् । भूभुजे तत्प्रपद्येऽहं दिव्यमेतद्विजृम्भितम् ॥९०॥
"
अविमृष्टाऽऽयतिर्भूपः, क्षीयते न्यायवानपि । अत एव विमृष्टारः, सन्निधेयाः सुमन्त्रिणः ॥९१॥
सत्यहरिश्चन्द्रकथा ।
१५७