________________
राजा सविनयं प्राह, मुने ! ब्रूहि करोमि किम् ? । विशाम्यग्नि ? त्यजामि क्ष्मां ?, चरामि व्रतमेव वा ? ॥६८|| सकोपं स मुनिः प्रोचेऽद्याऽपि श्रावयसे गिरम् । मायाविन् ! हरिणीभ्रूणघातपातकपङ्किलाम् ॥६९।। ततोऽङ्गारमुखोऽवादीत्प्रसादं कुरु मा रुषः । तपस्तेजोनिधे ! नाऽयं, राजाऽपमानमर्हति ॥७०॥ किन्तु दुष्कर्मणोऽमुष्य, पवित्रीकारकारणम् । शास्त्राऽनुपाति यत् किञ्चित्तदेवाऽऽशु समादिश ? ॥७१॥ मुनिरूचेऽङ्गारमुख !, शुद्धिस्तदाऽस्य जायते । सर्वस्वं यद्यसौ दत्ते, दानं ह्यघनिवृत्तये ॥७२॥ सोच्छासं नृपतिः प्रोचे, प्रसीद भगवन् ! मयि । सर्वस्वं मे गृहाण त्वं, विलयं यात्वघं मम ॥७३॥ किं न प्राप्तं मया त्रातः !?, शुद्ध्यामि यद्यतस्ततः । सग्रामाऽश्वेभकोशाभूर्दत्ता तेऽम्बुधिमेखला ॥७४।। प्रणम्य मुनिमङ्गारमुखोऽवादीत्कृताऽञ्जलिः । राजा यदभिधत्तेऽसौ, प्रतिपद्यस्व तत् किल ॥५॥ अथाऽपवार्य राजानमूचतुः सुहृदौ मृदु । अकाण्डे कोऽयमुत्पातो ?, राजन् ! विमृश मा मुह ॥७६।। राजाऽवज्ञाय तद्वाचमूचे सप्रश्रयं मुनिम् । मदुक्तं भगवन्नस्तु, गृहाण वसुधामिमाम् ॥७७॥ क्षामाऽक्षरं मुनिः प्राह, दत्ताऽस्मभ्यं मही त्वया । नाऽर्हस्यतःपरं पृथ्व्या, भोगमामेति सोऽब्रवीत् ॥७८॥ हरिश्चन्द्रेण पृथ्वी मे, दत्तेत्यर्थे भवान् खलु । साक्षीति वाराणसीयं, कोटिल्यमादिशन्मुनिः ॥७९॥
१५६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।